________________
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
॥२५॥
आगत्य स्वप्न इत्येवं वदति स्म, अस्मिन्नगरे नागानां कोऽपि भयङ्कर उपद्रवो यमवज्जीवितान्तकारी भविष्यति, अतो नागेन्द्रस्य प्रतिमां कारयित्वा पूजां कुरुत, अयमेवेकस्तस्योपद्रवस्य प्रतीकारोऽस्ति, यथा रोगस्यौषधम्। ततः प्रातःकालेऽप्येको नैमित्तिको नृपसभायामागतः, तेनापि तथैव कथितम्।
अथो नगरवासिनो लोकाः प्रतिमां कारयित्वा नानाविधार्चाभिस्तामर्चयामासुः, अथवा कस्य मरणभयं नास्ति ? । प्रजाप्रेरितोऽपि भूपस्तस्याः पूजायां मनोऽपि न दत्तवान् । सम्यक्त्वैक प्रसक्तत्वाच्छुद्धबुद्धिर्विचारयामास । यदि शुभमशुभंवा कर्माधीनमस्ति! तदा ऐहिककष्टशल्या स्वधर्म मलिनं कः कुर्यात् ? । तदनु भूभर्तृगृहे कलिकाले खला इव भयङ्करा नागा अभितो भ्रमन्ति स्म। तान् प्रेक्ष्य सर्वे राजलोका भयं प्रापुः, ततः सपरिवारो राजा सौधान्तरं गत्वोवास । परन्तु कुकर्माणीव तत्रापि तथैव ते प्रकटीबभूवुः, तदा धरणीधवं सर्वे प्राहुः । यन्नृपस्य कदाग्रहं धिक् धिक्, यतः स्तोकायास्तोकोऽनर्थस्स्वरिपुणाऽनेन स्वस्यारेभे । कष्टनाशायाद्यापि राजा सर्पाचा किं नाचरति ? प्रधानादय इत्यादि भृशमूचुः, तथाऽपि स तां न पूजयामास। तदनन्तरं क्रुद्धो नाग: स्वप्ने नृपतिं जगादरेरे! त्वं ममावज्ञां करोषि, किन्तु मे पराक्रमं नैव जानासि ? रुष्टोऽहं यमोऽस्मि, तुष्टोऽहं सुरतरुरस्मि। प्रत्यक्षं फलं पश्यन्नपि सम्यक्त्वकदाग्रहान्मां न पूजयसि ? अद्यापि प्रातरुत्थाय यदि त्वं मां स्वयं
॥२५॥