________________
श्रीजैन कथासंग्रहः
॥२३॥
***************
चोचितं त्वं कुरु, ततस्तेन प्रेरितो राजा-तस्यां क्षपायां श्यामवेषं कृत्वा निर्ययौ । अथ क्ष्मापतिर्वेश्यया सह कस्मिंश्चित् स्थाने मद्यमांसादिषु गृध्नुं मुनिं दृष्ट्वा स्वहृदि विविधसङ्कल्पांश्चकार, किञ्चिद्विचार्य च नरेशस्तमुवाच, हा ! हे साधो ! तवेदं निस्सीममकार्य किं ? क्व देवेन्द्रस्य चेष्टा क्व च विष्टाकीटस्य ? एवं क्व तव पावनः सदाचार ? क्व चेयं दुष्टचेष्टा ? यदि त्वमेवं दुराचारं सेवसे ? तदा तव तपोऽनुष्ठानादि कुत्र गतं ? धिक् त्वां धिक् च तव दुष्टमतिं धिक् च ते दाम्भिकं वेषं, धिक् च शङ्कारहितं तव चित्तं, धिक् तव भवं, धिक् च ते विषयान्, अत्र परत्र च भवतः क्व स्थानं भविष्यति ? । हा ! प्रौढान्यनन्तदुःखानि त्वं कथं सहिष्यसि ? निष्कलङ्कं धर्म कलङ्कितं कुर्वतस्तवानन्तकालपर्यन्तमनन्तं दुःखं भविष्यति, तस्मात् हे तत्त्वज्ञ ! कुकर्मणोऽस्मात् त्वरितं विरम । यो दुष्टकर्मणि प्रवर्तते तेन किं तत्त्वं विज्ञातम् ? अथ स साधुपिशाचो नृपमेवमाह-हंहो ? तत्त्वार्थज्ञानं विनैव मामेवं किं कथयसि ! अन्येषामपि साधूनामेवमेव मर्यादाऽस्ति गुप्ता । इदं हि कस्त्यक्तुं समर्थोऽस्ति ? । अथवा त्वं यदा प्रत्यक्षं प्रेक्षिष्यसे ? तदा ज्ञास्यसि । अहो ! पतितोऽपरानपि पतितान् प्रोचे, एवं विचारयन् राजाऽग्रे गच्छन् परनारीलुब्धमेकं मुनिम्, चौर्यं कुर्वन्तमपरम्, मृगयाऽऽचरन्तमेकम्, धीवरकर्म कुर्वन्तमन्यञ्च मुनिं ददर्श । भ्रष्टाचारिणोऽत एव अधमा एते सर्वे गणाद्द्बहिर्गुरोः पार्श्वात्त्वरितं
*****************
श्रीजयविजय कथानकं
॥२३॥