SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥२२॥ ************** प्रीणयामास, स स्वामीनं नृपं स्वोक्तवचनं प्रमाणयामास, यथा गुरुविनीतं शिष्यम् । कदाचिद्धर्मकथातत्परं तं राजानं स निगोदादिपदार्थेष्वतिसन्देहान् दर्शयामास । तत्त्वप्रकाशे प्रवीणो राजा सन्देहांस्तान्युक्त्या त्वरितं समूलमुन्मूलयामास, यथा हस्ती वृक्षान्, तदनन्तरमवधूतोराजानमुवाचहे नृप! वीतरागैः कथितो धर्मः सुखदः कर्मघ्नश्चापूर्वोऽस्ति किन्तु केनापि पालयितुं न शक्यः, यतः खड्गधारासमानोऽस्ति । पुनरपि गदति स्म-साधूनामन्तःकरणे किमस्तीति को वेत्ति ? नूनमेषां धर्माडम्बरमेवास्ति । तदनु भूपतिरुवाच-हे महाभाग्यशालिन् ! जैनमुनीनां जिनेन्द्रवाचामिव नास्ति क्वाऽपि विपरीतता, भवतामिदं वचनं महाखेदकृदस्ति। सोऽपि प्राह-प्रागहमप्येष्वेवमेव बुबोध परन्तु विपरीतदर्शनादधुनैवं वदामि, अथवा भवानेव तान् परीक्षताम् । एतादृशः कोऽस्ति ? यो जैनमुनीन् निन्दति। ततो राजा वदति स्म-भोः! सुनिश्चितगुणस्य का परीक्षा ? अथवा यदि तेज शास्ति तदा यथायोगं साऽपि क्रियतां। .. अवैकदा तत्र गच्छसहिताः केचिदुत्तमा गुरव आजम्मुः, तत्सेवातो भूपायैः स्वजन्मसफलीकृतम्, तद्गुणप्लाघां कुर्वन्तं राजानं सोऽवधूतो वदति स्म, हे नृपते ! एषां वर्णवादोऽपि परीक्षां कृत्वैव त्वया . क्रियतां, यथा मणीनाम् । सर्वेषां परीक्षाऽपि गुह्यरीत्यैव भवति । अतस्तत्र प्रयत्नः क्रियता, परीक्ष्य ॥२२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy