________________
*
*
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
॥२१॥
*
. निन्दादिकं चकार । भानोआर्या कुलमदं चकार, प्रान्ते च आयुः परिपूर्ण कृत्वा प्रथमं देवलोकं प्राप्य च्युत्वा च ततः क्रमेण युवां युवयोरिमास्तिस्रः प्रियाश्च बभूवुः । तत्त्वत्रयाराधनाधुवयोर्दिव्यवस्तुत्रयी, जयीप्रियाणां, त्रिखण्डराज्यादिच बभूव । त्रिवारं शल्या जयस्य दिव्यवस्तुनिर्गमादि बभूव, तत्प्रियायाश्च पूर्व कुलमदेन नीचकुलादि च । इति वचः श्रुत्वा ते जातिस्मरणं प्राप्य धर्मे दृढतां धृत्वा साधुधर्माभिलाषिणः श्राद्धधर्म मुदा कक्षीचक्रुः। ततः विजयनरेशः सम्यक्त्वादिप्रवर्तनरर्हद्धर्ममेकच्छत्रं चकार, नृपतेराज्ञया किं न भवति ? । अस्य राज्ञः चतु:-श्रद्धानाऽऽदिना सम्यग्दर्शने तथा शुद्धिर्बभूव यथा कष्टेऽपि न हि चचाल । जगति एतादृशा नरा धन्यवादाऱ्या भवन्ति । अथ विजयो विविधजिनपूजाद्यैर्विविधयात्राभिः सर्वमिथ्यात्वनाशाच्च सम्यक्त्वमदीदिपत्, तस्य विजयाद्यास्तिम्रो राज्यस्तासांतु क्रमेण नन्दना नन्दनानन्दसुन्दराख्याखयो बभूवुः। अथैकदा प्राग्विदेहेऽर्हन्तमिन्द्रः पप्रच्छ, हे प्रभो! अधुना भारते कोऽपि गृहस्थोऽहंदमकदृढचित्तोऽस्ति? तदा भगवानुवाच हे शक्र! विजयपुरे विजयराजो जैनधर्म वज्रवदिदानी दृढोऽस्ति, स सम्यक्त्वादमरैरपि मेरुवदकम्प्यः इति श्रुत्वा हर्षितो देवेन्द्रस्तं प्रशशंस । अथ सत्यमपि तद्वचनं मिथ्याकत कोऽपि मिथ्यात्वी देवोऽमण निर्ययो, अहो सर्वज्ञवचनेऽप्यत्रद्धा । ततो जैनावधूतवेषं कृत्वा स विजयपुरं जगाम, कलावभ्यासकौशल्यान्नृपं
****
॥२२॥
*