________________
श्रीजैन
श्रीजयविजय कथानक
कथासंग्रहः
॥१२॥
कन्यासमीपमुपविष्टः, तदनु स महौषम्या प्राग्वत् तां वेगेन जीवयामास । ततश्च कन्याजीवनात् तत्तादृग् रूपप्रेक्षणाच्च सर्वे जनास्तदा साश्चर्य हर्षविषादौ दधुः । ततो दीयमानां कन्यां दृष्ट्वा जयो भूपतिं वारयामास, तथा हंसीसमानाया अस्याः काकसदृशोऽहं न योग्य इत्युवाच । इत्थं श्रुत्वा सर्वे नृपादय आश्चर्य दधुः, अहो कीदृशी श्रेष्ठताऽस्य ? । नन्वेतादृशा मानवा जगति दुर्लभाः सन्ति । यत उक्तं - गुणानुरागिणः स्वल्पास्तेभ्योऽपि गुणिनस्ततः, गुणिनो गुणरक्ताच, तेभ्यः स्वागुणवीक्षिणः ॥१॥ ततश्च राजा स्ववचनं पालयितुं कन्यां ददौ, कन्या-कन्याजनन्यायैरपि तथैव तत्स्वीकृतं, अहो ! महात्मनामेषारीतिः। एवं स राजादीनां परीक्षां कृत्वा स्वरूपं स्वसामर्थ्य च प्रकटीकर्तुमुवाच । हे राजन् ! रूपेणानेन रूपखी कनीमिमां न परिणयामि तस्मादहं सुरूपतां करोमि, इष्टसाध्यस्य सिद्धिश्च साहसेनैव भवति, येन निर्लक्षणोऽपि सलक्षणो भवति. उक्तं हि-'सर्व सत्त्वे प्रतिष्ठितम् तस्मात् साहसमवलम्ब्य निजशरीरं वह्नौ प्रक्षिप्य निश्चितमुत्कृष्टां । शोभां त्वरितं नेष्यामि, इति कथयित्वा सत्त्वशाली स आश्चर्यादिभिः सर्वेष्वपि पश्यत्सु वह्नौ पतङ्गवत् पतित्वा तत्कालमुच्चैर्दीप्रः स निर्ययौ । महौषध्या महिम्ना स्वल्पमप्यदग्धः, मणिमाहात्म्येन च दिव्यवपुष्मान बभूव । तत्पश्चात्साश्चयों राजा तेन साकं कन्यामुद्वाह्य शतं करिणः सहस्रशस्तुरङ्गार्दीश्चास्मै दत्तवान् । ततश्च तया सह स भोगान्भुङ्क्ते
॥१२॥