________________
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानक
॥११॥
यावदाह्वयति स्म, तावल्लज्जित: सोऽपि मन्त्रिणो मुखं दर्शयितुमसमर्थस्तन्मन्दिरान्निर्गत्य स्वरूपं च परावर्त्य मणिमहिम्ना दूरतरं गत्वा निर्जने वनेऽवधूतवेषेण यावद् बभ्राम, तावन्नष्टवस्तुप्राप्तिसूचकं शकुनं प्राप्य तुतोष । ततश्च स यावचिन्तयति स्म, यत् तां महौषी कथं लप्स्ये? तावदपरोऽवधूतरूपधारी तममिलत्, महीपर्धी दर्शयित्वा च जयं पृच्छति स्म, यत् किंगुणेयम् ? सोऽपि स्वामुपलक्ष्य तुष्ट्या वदति स्म। भोस्त्वया कथमियं लब्धा ? यदि सत्यं चेद्वदसि तदा कथयामि, सोऽवंदत् भो महात्मन् ? एकस्यां नगर्यामेकस्मान्महात्मनो महोद्यमेन महाविद्यावदियं प्राप्ता, परन्तु मम न फलति, तस्य किं कारणम् ? सोऽप्युवाच रे ! अनार्य ! चौर्याद्गृहीतं दिव्यवस्तु कथं फलेत् ? चौर्य त्विहभवेऽप्यनर्थाय भवति, किं पुनर्विश्वासघातजन्यचौर्य । रे धूर्त ! धूर्ततया मामिव लोकं वञ्चयसे ? परन्तु कुत्रापि हे पाप ! पापफलं त्वं प्राप्स्यसि निश्चयमिति शृण्वन्नेव तां भूमौ मुक्त्वा त्वरितं नश्यति स्म । सोऽपि प्रवासादिक्लेशे जातेऽपि स्वार्थसिद्ध्या प्रमुमुदे । अथैकदा वामनीभूतो जयो भोगापुरीं पुरी जगाम । तत्र सुभोगो नृपो, भोगवती राज्ञी, तयोर्भोगिनीनामकन्या च बभूव । अथैकदा तां कन्यां नागोऽदशत्, तदा राजा यो नागदष्टामिमां जीवयेत् तस्मै तामश्वसहस्रं च शतं गजांश्च वितरेदिति पटहोद्घोषणां कारयामास, तां श्रुत्वा तत्राटन् स जयो जनानां हास्यमुत्पादयन् भूपं प्रणम्य नृपाऽऽदिष्टः
॥११॥