SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१०॥ ************* । चतुर्थश्च विचक्षणः पाञ्चालः कथयामास यन्नारीषु मृदुता कर्तव्या, इति मे कामशास्त्रस्य हृदयमस्ति । अत्र प्रकृतन्त्विदं कस्यापि विश्वासो न कर्तव्य इति, अन्यत्तु प्रासङिगकमलं विस्तरेण । ततश्च जयकुमारो महौषधीगमनात्स्वान्तःकरणे दुःखं दधार । इतश्च जयं निष्कास्य पण्याङ्गनया सम्पूज्य भृशं प्रार्थितोऽपि सामान्यमणिवन्महामणिर्नैव किमपि ददौ यतः- दिव्यवस्त्वपि पुण्यवतामेवेष्टकृद् भवति नान्यथा । ततः कामलताद्यैस्तिरस्कृता साऽधिकलाभेच्छ्या तं महामणिं लात्वा कुट्टिनी जयस्य समीपे जगाम। तदनु कपटेन कपटीनी कुट्टिनी कथयामास तं जयं, यत् हे वत्स ! किमस्मांस्त्यक्त्वा सम्भालयस्यपि नैव ? इत्यादि कथयित्वा महामणिमर्पयामास । स्वगृहमागन्तुमाग्रहं चकार च । तद्वचनं श्रुत्वा कोपाञ्चितोऽपि प्रेमप्रदर्शयन्नागमिष्यामीति कथयित्वा तां विसृजति स्म । सोऽपि कामलतां ध्यायंस्त्वरितं तद्गेहं जगाम, दुस्त्यजं व्यसनं धिगस्तु । तदनु तदासक्तो जयस्तत्रैव कांश्चिद्वासरांस्तस्थौ, अहो ! महतामपि कीदृशी दशा ?, ततश्च वियोगाऽऽर्ता नृपपुत्री स्वपतेर्वृतान्तं स्वपित्रे विज्ञापयामास, ज्ञात्वा राजा दुःखी बभूव । अथ जातुचिन्मम लज्जयाऽसौ दुर्व्यसनान्निवृत्तो भवेदिति विचारयित्वा भूपतिस्तमाह्ययितुममात्यं प्रेषयामास, मन्त्र्यपि तस्या गृहस्याङ्गणमागत्य तं. *************** श्रीजयविजय कथानकं ॥१०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy