________________
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
॥९॥
तच्छुत्वा तुष्टो जयः पटहं स्पृष्टा राजधानिजगाम । ततो नृपतेराज्ञया मन्त्रवादिवज्जापाद्याडम्बरपूर्वकं महौषधीवासितजलच्छटाच्छोटनया तत्कालमेव भूपकन्यां सज्जीचक्रे, दिव्यौषधीबलेन किं न भवति ? ततस्तुष्टो महिपतिस्तस्मै नागकन्यासमानां स्वकन्यां कनककोर्टी च ददौ, यतो नान्यथा भवति भाषिता भारती सतां। महामहोत्सवैर्विवाहानन्तरं राज्ञा प्रदत्ते सौधे तस्थौ जयो दोगुन्दुकदेववत्, सन्मत्या तं महामणिं प्रत्यानेतुमुपायं च विचारयति । अथ कश्चिदपि धूर्तः कंपटयुक्तविनयाद्यैर्जयं स्ववशीकृत्य गुप्तां तां दिव्यमहौषधी जग्राह, अनर्थप्रदं विश्वासं धिक, तदुक्तं- जीर्णेभोजनमात्रेयः, कपिल: प्राणीनां दया। बृहस्पतिरविश्वासः, पाञ्चाल: स्त्रीषु मार्दवम् ॥१॥ अस्य भावार्थोऽयं-एकदा कस्यचिन्नृपस्य सभायां चत्वारो बुधाश्चत्वारि स्वस्व शास्त्राणि गृहीत्वाऽऽगत्य च कथयामासुः, यद्धे राजन् ! अस्माकं ग्रन्थरत्नानि शृणु, नराधिपः पृच्छति स्म-किं प्रमाणानि ? तेऽप्यूचुः-एकैकलक्षप्लोकप्रमाणानि सन्ति, तदनु पृथ्वीपतिरुवाच-समयोऽस्माकमेतावान्नास्ति, अतो भवन्तो ग्रन्थसारं कथयन्तु । ततश्च तेषु प्रथममात्रेयपण्डितो वक्ति, अजीणे सति भोजनस्य त्यागो विधेय इति मे वैद्यशास्त्रस्य सारोऽस्ति । द्वितीयो विबुधः कपिलो वदति स्म, प्राणिनां दया कर्तव्या, इति मे धर्मशास्त्रस्य तत्त्वमस्ति । तृतीयो बृहस्पतिरिति नाम्ना प्राज्ञोगदति स्म, कस्यापि विश्वासोनकरणीय, इति मे नीतिशास्त्रस्याभिप्रायोऽस्ति