SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ዘረዘ साधारणस्त्रीणां ताः कथं सुखहेतवः ? ॥ १ ॥ मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥ २ ॥ अपि प्रदत्तसर्वस्वात् कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ॥ ३ ॥ न देवान्न गुरून्नापि सुहृदो न च बान्धवान् । असत्सङ्गरतिर्नित्यं वेश्यावश्यो हि मन्यते ॥ ४ ॥ कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वर्ती कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥ ५ ॥ किं बहुना । यद्यपि माता प्रेरयति तथाऽपि गुणलुब्धा सा कामलता लोलुभां' मातरं कथयामास । यदस्माकं पुण्यैः परदेशात् प्राप्तेनानेन कोटिकोटीधनं दत्तं तस्मादयं कथं त्यज्यते ? इत्युक्ताऽपि कुट्टिनी तस्य दासीद्वारेण तिरस्कारमकारयत् । ततश्चभिमानतो यथा दरिद्रस्तथैव लज्जादियुक्तस्तस्मात् स्थानान्निर्गत्य शुन्यं गृहं गतः । इतश्च तन्नगरवासिनो नृपतेः ससखी कन्या यावद्रन्तुं वाहिन्या अन्तर्मरालीवत् प्रविवेश तावत्तत्रैव दौर्भाग्योत्पन्नात्प्रेतदोषाच्छिन्नलतेव पतति स्म । मृतेव साऽचेतना च बभूव । तज्ज्ञात्वा राजा तां गेहं नीत्वा भूरिश उपचारान् कारयामास, परंतु केनापि गुणो नाभूत् । ततो दुःखी पृथ्वीपतिर्यः कश्चिद्गुणवान्राजपुत्र पटु कर्ता तस्मै राजा स्वर्णकोर्टी तां कन्यां च दातेति पटहेनोद्घोषयामास । १ लोलुभां लोभवतीमित्यर्थः । ************ श्रीजयविजय कथानकं ዘረዘ
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy