________________
श्रीजैन कथासंग्रहः
॥२॥
*************
// अथवा शुद्धदेवगुरुधर्मविषयकोऽध्यवसायः सम्यक्त्वं, प्रोक्तञ्च- अरिहं देवो गुरुणो सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ॥ २ ॥ अनयोर्भावार्थ एवं - जीवाजीवादिपदार्थान्सम्यक्तया यो जानाति, तस्य निश्चयेन सम्यक्त्वं भवति । अथवा तेषां स्वरूपमजानन्नपि यो भावेन श्रद्धां धरति, तस्यापि सम्यक्त्वं भवति ॥ १ ॥ पुनश्च अर्हन्देवः सुसाधवो जनमतं च मे प्रमाणमित्यादिर्यश्शुभभावस्तस्य जगद्गुरवः सम्यक्त्वं ब्रुवते । अस्य फलं चैवमुक्तं तोमुहुत्तमित्तंपि, फासिअं जेहिं हुज्ज सम्मत्तं । तेसिं अवहपुग्गल-परिअट्टो चेव संसारो ॥ १ ॥ सम्मद्दिट्ठी जीवो, गच्छड़ निअमा विमाणवासीसु। जड़ न विगयसम्मत्तो, अहव न बद्धाउओ पुव्विं ॥ २ ॥ जं सक्कड़ तं कीरड़, जं च न सक्कड़ तयंमि सद्दहणा। सद्दहमाणो जीवो, बच्चइ अयरामरं ठाणं ॥ ३ ॥ अत्र भावार्थ एवमस्ति :- यो जीवोऽन्तर्मुहुर्त मात्रमपि सम्यक्त्वं प्राप्नोति, स अर्धपुद्गलपरावर्तन कालस्यान्तरेव मुक्तिं गच्छति ॥ १ ॥ यदि यः सम्यक्त्वं न वमेन्नत्यजेद्वा, सम्यक्त्वप्राप्तेः पूर्वमन्यगत्या आयुर्न बध्नीत, तदा स सम्यग्दृष्टिर्जीवो नियमेन वैमानिकदेवो भवति ॥ २ ॥ यत् शक्यं धर्मकृत्यं तत्क्रियते, कर्तुं यदशक्यं तत्र श्रद्धां च यः कुर्यात् स श्रद्धां कुर्वन् - जीवोऽजरामरस्थानं व्रजति ॥ ३ ॥ इममर्थं जयविजयनृपतिदृष्टान्तेन शास्त्रकृतो भगवन्तो दृढीकुर्वन्ति,
:
*************
श्रीजयविजय कथानकं
॥२॥