________________
*
॥ अहम्॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पर-हेमचंद्र सदुरुभ्योनमः ।।
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
*********
सम्यक्त्वोपरि श्रीजयविजयकथानकम्
॥१॥
शत्रुमित्रेषु मध्यस्थाः, सार्वाः सर्वाङ्गसुन्दराः । केवलानन्तलक्ष्मीगा-स्ते ते सन्तु शिवाय मे ॥१॥सर्वलब्धिगुणाऽऽधारा, गम्भीरास्सागरा यथा। गौतमादिगणाधीशाः, कुर्वन्तु मङ्गलं हि ते॥२॥ कलिकालाहिताा ये, निर्दोषा हि जिनागमाः। भो: कल्याणैककन्दा वै, तानाश्रयत सज्जनाः ॥३॥ धर्मवृक्षस्य मूलत्वात्, स्वरूपं दर्शनस्य भोः । किञ्चिद्बालावबोधाय, प्रथमं दर्श्यते मया॥४॥
तथाहिः - जिनोक्तजीवादितत्त्वानां सम्यक् श्रद्धारूपः शुभो जीवपरिणामो दर्शनं सम्यक्त्वं, उक्तं हिः-यत् जीवाइ नवपयत्थे जो जाणइ तस्स सम्मत्तं । भावेण सद्दहते अयाणमाणेवि सम्मत्तं॥१ १. केवलं, केवलज्ञानं तद्रूपा या अनन्तालक्ष्मीस्तां गाः, प्राप्ताः ।
**