________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥२८॥
पृण्वन् स स्वाऽवासमागतः, तिसृभिर्वामलोचनाभिदोगुन्दकसुर इव विषयसुखं बुभुजे । अर्थकदा विजयपुरनगरसमीपवर्तिनि श्रीपाबंप्रभुप्रासादे समागत्याष्टाहिकामहः कुमारेण कृतः, तदा चिन्तामणियक्षः प्रत्यक्षीभूयोवाच; वत्स! गच्छ स्वकीयपितृराज्यमुपभुक्ष्वेति । एतद्यक्षवाक्यं श्रुत्वा महता दलेनस विजयपुरमागतः, तदा स्वल्पसैन्यो राजा दुर्गमध्ये एव स्थितः, नतु बहिर्निर्गतः, नगरंच न मुञ्चति, तदा यक्षेण कुमारसेनाकाशे समवतरन्ती दर्शिता, तां दष्ट्वा नगरं मुक्त्वा स नष्टः, पश्चात्कुमारेण नगरप्रवेशः कृतः, सर्वैरपि प्रधानपुरुषः कुमारो विजयसेनपट्टे स्थापितः, रणसिंहनामा राजाजातः, सज्जनान् सन्मानयति, दुर्जनांस्तर्जयति, रामचन्द्रवन्नीतिकारकः स्वकीवं राज्यं पालयति। एतदवसरे समीपवर्तिग्रामात्कश्चिदर्जुननामाकौटुम्बिको नगरमागच्छन् मार्ग क्षुत्तृषातुरःस्वामिशून्यमेकं चिभंटीक्षेत्रं दृष्ट्वा तत्र द्विगुणं मूल्यं मुक्त्वा एकं चिर्भटकं लात्वा वस्त्रेणाऽऽवेड्य कटौ बव्वा यावनगरमायाति तावत्कस्यचित् श्रेष्ठिसुतस्य कोऽपि विनाशं कृत्वा मस्तकं गृहीत्वा गतः, तच्छुद्ध्यर्थ दुर्गपालसेवका इतस्ततो भ्रमन्ति, तदवसरेऽर्जुनो दृष्टः, पृष्टं; किमिदं तव कटौ ? तेनोक्तं चिर्भटकं, राजसेवकैरवलोकितं मस्तकं दृएं, चौरवत्पश्चाबमवा प्रधाननिकटमानीतः, प्रधानेनोक्तं; धिक् किमाचरितमिदं? बालमारणं दुर्गतिकारणं, तेनोक्तं नाहं किमपि जानामिस्वामिन् घडायडित्ति एतदुत्तर
॥२८॥