________________
श्रीजैन कथासंग्रहः
अवनीरणसिंहचरित्रं
प्रारभ्यते
॥२७॥
। यदुक्तं-नभवति, भवति चनचिरं। भवति चिरं बेत्फले विसंवदति ॥ कोपः सत्पुरुषाणां; तुल्य: स्नेहेन नचानां ॥१॥बीणां हृदयं तु प्रायो निर्दयं भवति, यदुक्तं-अनृतं साहसं माया। मूर्खत्वमतिलोभता ॥ अशौचं निर्दयत्वं च । खीणां दोषाः स्वभावजाः॥१॥स्वकार्यतत्परा सती नीचमण्याचरते, इत्वं कमलवतीकचनतो रत्नवत्यपि कुमारेण सन्मानिता । अब स कियहिनानि तत्र स्थित्वा पुरुषोत्तमनृपाज्ञामादाय कनकपुरं प्रति चलितः, पित्रा बहुदासीदासालस्कृतिववादिसमर्पयित्वा स्वपुत्री संप्रेषिता । कुमारस्यापि बहुहस्त्यश्वरवपदातिस्वर्णमुक्ताफलादि समर्पितं । रणसिंहो रत्नवतीमादाय कमलवत्या साई शुभदिवसे चलितः, पाटलीखण्डपुरसमीपं चागतः, तत्र ज्ञातसकलपुत्रीस्वरूपेण कमलसेनराज्ञा सन्मुखमागत्य समहोत्सवं जामाता गृहमानीतः, कमलवती बहु सन्मानिता प्रशंसिताच पुरलोकः, जनन्याऽपि सस्नेहमालिगिता स्वपुत्री। बहुदिनानि तत्र स्थित्वा कुमारः कनकपुरं प्रति चलितः, कनकशेखरोऽपि कुमारागमनं श्रुत्वा सानन्दः सन्मुखमागतः, स विस्मयं मिलितः कुमारो, नगरनवेशं कारितः, तदवसरे बहवो लोकाः पौरखियो निरीक्षितुमागताः, सानन्दाः परस्परमेवं वदन्ति पश्यतैनां कमलवर्ती या शीलप्रभावेण यमसमीपं गताऽपि यममुखे पूलिं दत्त्वा पुनरवागता, यद्गुणरञ्जितोरणसिंहोऽपि मरणमझ्मीकृतवान् । धन्येयं सतीमुख्या कमलवतीति प्रशंसा
॥२७॥