________________
श्रीजैन कथासंग्रह
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥२६॥
अपि सविस्मयाचस्युः, बवास्वर्णान्तिके पित्तलकं न शोभते ततस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते, बुक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं । भन्योऽयं कुमारः, धन्येयं कमलवतीति स्तुवन्तो जनाः स्वस्थानं जग्मुः, कुमारोऽपि सहर्ष सपरिवारः समहोत्सवं कमलवती स्वाऽऽवासमानयति स्म, दिव्याभरणवस्त्रविभूषितया तया सह पञ्चविषयसुखोपभोगेन सार्थ जन्म मेने। एकदा कुमारेणोक्तं, भो सुलोचने! कश्चिदेको विप्रस्तवाकारणार्य विधातृपावें समागतः, स त्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह; भो प्राणेश! स एवाई, सर्वोऽपि जटिकाऽवदातो निवेदितः, श्रुत्वा चातीव स सन्तुष्टः । अथ कमलवत्या चिन्तितमवं वल्लभो रत्नवी मनागपि नावलोकयति, अत्यन्तनि:स्नेही जातोऽस्ति, अतोऽयं ममैवाऽवर्णवादः प्रवत्स्यति, यद्यप्यनयाऽपरार्द्र तथापिमया तन्निवारणीयं, यतःकृतोपकारस्य प्रत्युपकारकरणे किमाचर्य ? अपकारिण्यप्युपकारकरणं सल्लक्षणं, उक्तं च-उपकारिणि बीतमत्सरे वा। सदयत्वं यदि तत्कुतोऽतिरेकः । अहिते सहस्राऽपरामलुब्बे। सरलं यस्य मनः सतांस पुर्वः॥१॥ इति विचिन्त्य कमलवत्या कुमारपावें वरो मार्गितः, कुमारेणोक्तं; यदीप्सितं तवृणु, कमलवती प्रोवाच; यदीप्सितमर्पयव तदा रत्नवत्यामपि मयीव सस्नेहा भवथ; यदप्यनयाऽपराधः कृतस्तथाऽपि क्षन्तव्यमेव । यतो यूयमुत्तमकुलसमुद्भवाः, नघटते चैतत्कुलीनानां बहुकालक्रोभरक्षणं
॥२६॥