________________
श्रीजैन कथासंग्रहः
॥२५॥
वेति ? यस्वं ममानिप्रवेशेऽन्तरायं करोषि तत्किं कारणं ? विप्रेणोक्तं; भो कुमार ! त्वदीया कमलवती प्रिया विधातुः पार्श्वे वर्त्तते, ज्ञानेनाहं जानामि, ततो यदि भवान् कथयति तदा ममात्मानं विधातृपार्श्वे प्रेषयित्वा कमलवतीमत्राऽऽनयामि, तदा कुमारेणोक्तमत्रार्थे विलम्बो न विधेयः, बदीदं सर्व सत्यं भवति कमलवत च पश्यामि तदायं ममावतारः कृतार्थः, तदा बटुकेनोक्तं; भो सुंदर ! दक्षिणां विना किमपि मन्त्रविद्यादि न सिद्ध्यति, तदा कुमारेणोक्तं; भो मित्र ! पूर्व तव मया मनः समर्पितमस्ति, अधुना तु जीवोsपि त्वदावत्तः, अतः परं का दक्षिणा ? बटुकेनोक्तं, त्वदीयो जीवचिरायु:, अहं यदा यन्मार्गयामि तत्त्वया तदा समर्पणीयं, कुमारेणोक्तं; मया वरो दत्तस्तत्करिष्यामि किं बहु कथनेन ? परं मम प्रियां सत्वरमानय । एवमुक्ते तेन संजीविनी नाम्नी जटिका सर्वेषां दर्शिता, जवनिकान्तरस्थितीतो ध्यानं कर्त्तुं स्थितः कुमारोऽपि प्रमोदमेदुरमनाः संजातः, राजाऽऽदयोऽपि कमलवतीमवलोकयितुं सोत्साहाः संजाताः, महदाश्चर्य भविष्यति यदियं मृताऽपि कमलवती जीवन्ति समागमिष्यतीति । महानयं ज्ञानी विप्र इति लोका अपि परस्परं प्रवृत्तिं कुर्वन्ति, तदवसरे तेन जटिका कर्णाद्दूरतो मुक्ता, तावता कमलवती जाता, जवनिकातो निर्गता, कुमारेण हर्षोत्फुल्लनयनेन दृष्टा, सत्येयं मदीया कमलवतीप्रिया, ततः सा समागत्य स्वभर्तुः प्रणामं चकार। सर्वैरपि दृष्टा, तदीयं रूपलावण्यसौभाग्यादि दृष्ट्वा लोका
अथश्रीरणसिंहचरित्रं प्रारभ्यते
॥२५॥