________________
श्रीजैन कथासंग्रहः
॥१२॥
द्विक्रोशां च सुरङ्गा-मचीखनज्जतुगृहं यावत् ।। ११६ ॥ वार्त्ता तां च छन्नं न्यवेदयत् पुष्पचूलभूपतये ॥ सोऽपि ततो दासे, प्रैषीहुहितुः पदे रुचिराम् ॥ ११७ ॥ भूषणभृतेति सुपरिच्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ॥ ११८ ॥ गणिकाप्रेमेव मनो-बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां व्यवाहयद् ब्रह्मदत्तेन ॥ ११९ ॥ लोकं विसृज्य तनयं, प्रैषीदथ 'नुषं गृहे सा ॥ सोऽपि वधू-वरधनुयुग्, 'विसृष्टतन्त्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गतेऽर्द्धरात्रे, वार्त्ताभि: सचिवसूनुरचिताभिः ॥ तत्राज्वलयंज्ज्वलनं, जतुवेश्मनि निजनरैश्चुलनी ॥ १२१ ॥ दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् । तत्स्पर्द्धयेव परित स्तत्सदनं व्यापदनलोऽपि ।। १२२ ।। सम्भ्रान्तोऽथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ।। १२३ ।। सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्द्वारमितः प्रविश, प्रकाश्य पार्ष्णिप्रहारेण ॥ १२४ ॥ छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः । प्रैषीद्दासीमेनां, तत् प्रतिबन्धं विमुञ्चास्याः ।। १२५ ।। तेनेत्युक्तो नृपभू-भूपुटमास्फोट्य पार्ष्णिघातेन ॥ सुहृदा समं सुरङ्गां, विवेश योगीव भूविवरम् ॥ १२६ ॥ प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ ॥ तौ जग्मतुः १. रीति-पित्तल २. सवधूम् । ३. विसर्जितपरिवारः । ४. पादघातेन ।
॥ श्रीचित्रसम्भूत चरित्रम् ॥
॥१२॥