________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत चरित्रम् ॥
॥११॥
स्वामिन् !॥ पशवोऽपि प्राणानिव, निजान्यऽपत्यानिरक्षन्ति॥१०५॥भूयोऽप्यूचे दीपों, रिपुमेवावेहि सुतममुं सुतनो!॥ तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः॥ १०६ ॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-निहते वचनीयता' न स्यात् ॥ १०७ ॥ दीर्घोऽऽब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम्॥१०८॥ तत्र च सवधूकेऽस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः ।। इति तौ विमृश्य जतुगृह'-मारम्भयतामसारमती ॥१०९।। वृत्वा ब्रह्मसुतार्थ, पुष्पवर्ती पुष्पचूलनृपतिसुताम्॥सामग्रींच समयां, विवाहसक्तामकारयताम् ॥ ११० ॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाऽऽख्यद्दीर्घनृपमेवम् ॥१११॥ अस्ति सुतो मे वरधनु-नामा युष्मनिर्देशकरणचणः॥ तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा॥११२॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति धृताशङ्कः ॥ दीर्घः कृतावहित्थस्तमित्यवोचत्ततो दम्भात्॥११३ ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहैव दानाद्यम् ॥ ११४ ॥ गङ्गातटेऽथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मन्त्री॥ दीनादीनां दानं, ददौ यथाकाममन्नादेः ॥ ११५ ॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः ॥ १. निन्दा। २. वह्निः । ३. लाक्षागृहम् । ४. वृद्धः । ५. कृतं आकारगोपनं येन सः । ६. चन्द्रम् । ७. दानशालाम्।
॥११॥