________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम्॥
॥१०॥
सकलं, दीर्घा विद्रवति तदयुक्तम् ।। ९४ ॥ तदसौ किमपि विदध्या-भ्रूपभुवोऽपि व्यलीकमतिदुष्टः । नीचो हि पोषकस्या-प्यात्मीयः स्यान्न भुजग इव ॥ ९५॥ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसझं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसूस्तदसहिष्णुः। अन्त:पुरान्तरगम-वृद्धा 'द्विककोकिले कुपितः॥ ९७ ॥ वध्याविमौ यथा वर्णसङ्करादीदृशः परोऽपि तथा ॥ हन्तव्यो मे निश्चित-मित्युच्चस्तत्र चावादीत् ॥ ९८ ॥ काकोऽहं त्वं च पिकीत्यावां खलु हन्तुमिच्छति सुतस्ते ॥ तत इति दीर्घेणोक्ते, देव्यूचे शिशुगिरा का भी: ? ॥ ९९ ॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुनः॥ नृपभूः प्रोचे तच्च, श्रुत्वा दीर्घोऽवदच्चुलनीम् ॥१०॥ शृणु सुभगे! सुतवाणी, साभिप्रायां हलाहलप्रायाम् ॥ देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ॥ १०१ ॥ हंस्या सममन्येद्यु-र्बकमादायावरो'धमाऽऽयातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥ १०२ ॥ तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् ॥ अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ॥ १०३ ॥ वृद्धिंगतो हि भावी, सुखविघ्नायाऽऽवयोरसौ नियतम् ॥ तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ॥ १०४ ॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं १ द्विकः काकः । २ विषसहशाम् । ३ अन्तःपुरम् ।
॥१०॥