________________
कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥९॥
॥ सामान्यमिव व्यक्तिषु, तेषु स्नेहोऽभवव्यापी॥८३॥ पञ्चापि ब्रह्माद्या-स्तेऽन्योन्यं विरहमक्षमाः सोदुम् ॥ एकैकपुरे न्यवसन्, प्रतिवर्ष संयुताः क्रमशः ।। ८४ ॥ काम्पील्यपुरेऽन्येद्युः, सममायातेषु तेषु परिपाट्या॥ ब्रह्मनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे॥८५॥ जातद्वादशवर्ष, न्यस्याङ्के ब्रह्मदत्तमथ सुहृदाम्॥ सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः॥८६॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः । दम्युमित्रस्य सुतः, शैशवमवगाहते यावत्॥ ८७॥ तावद्राज्यमिदंरक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थ, मुक्त्वाऽन्ये स्वस्वनगरमगुः॥८८॥ दीर्घोऽथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैषीत्कोशं च चिरगूढम् ॥ ८९ ॥ मध्ये'शुद्धान्तमगा-'दनर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मवार्त्तयन्नमनिपुणगिरा ॥ ९०॥ सोऽथावमत्य लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् ॥ अरमयदनिशं चुलनी-महो ! अजय्यत्वमक्षाणाम् ॥ ९१ ॥ ग्रहिला पटमिव मुमुचे, चुलन्यपि प्रेमरमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥१२॥ तच्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दथ्यौ सद्बुद्धिजलजलधिः ॥ ९३॥ कुरुतामकार्यमेत-चुलनी जातिस्वभावचपलमतिः ॥ न्यासेऽर्पितमपि १. अन्तःपुरम् । २. प्रतिबन्धकशून्यः ।
॥९॥