________________
श्रीजैन कथासंग्रहः
UN अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥४॥
स्वल्पमप्यस्ति किञ्चित्॥१॥ एतत् श्रुत्वा रणसिंहेनोक्तं सत्यमेतत् । साधुनाऽपितं रुचितधर्म विज्ञाय पृष्टं हे वत्स ! प्रतिदिनमत्र प्रासादे पूजार्थमागच्छसि ? तेनोक्तं क्वेदृशं मम भाग्यं यदत्रागत्य पूजां करोमि। साधुनोक्तं जिनपूजाया महत्फलमस्ति। यदुक्तं-सयं पडज्जणे पुण्णं । सहस्सं च विलेवणे ॥ सयसहस्सिया माला । अणंतं गीयवाइए॥१॥ इति । अतः प्रतिदिनं यदि पूजां कर्तुमसमर्थस्तदा देवदर्शनं कृत्वा भोजनं विधेयमित्यभिग्रहतोऽपि त्वं सुखभाग्भविष्यसीति श्रुत्वा तेनापि तत्प्रतिपन्नं । अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा भोजनमायाति । तदा हलं मुक्त्वा कूरकरम्बादिनैवेद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागत्य भोजनं करोति । एवमभिग्रहं पालयतस्तस्य बहूनि दिनानि गतानि । एकदा चिन्तामणियक्षः परीक्षाकरणार्थ सिंहरूपेण द्वारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनार्थमागतः, सिहं दृष्ट्वा च चिन्तयति स्म गृहीतनियमस्तु प्राणान्तेऽपि न भङ्क्तव्यः, यद्ययं सिंहोऽस्ति तदाहमपि रणसिंहोऽस्मि, किं करिष्यति ममायमिति शूरत्वेन तेन सिंहो हक्कितः, सोऽपि तत्साहसं दृष्ट्वा तिरोबभूव । पश्चाग्जिनभक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य भोजनं चकार, इत्थमेकदा दिनत्रयं यावद् गृहाद्भक्तमपि नाऽऽगतं, चतुर्थदिवसे भक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढौकयित्वा जिनदर्शनं कृत्वा स्वक्षेत्रमागत्य चिन्तयति स्म।कोऽप्यतिथिरद्याऽऽयाति
॥४॥