________________
INHS अथश्रीरणसिंहचरित्रं
श्रीजैन कथासंग्रहः
प्रारभ्यते
॥३॥
नवि किंपि विनाणं॥ जेण परिज्जाकाया। खज्जंती कालसप्पेण ॥२॥ इत्यादिवैराग्यपरायणेन विजयसेनराज्ञा स्वप्रियया विजयराज्या तद्वन्धुना सुजयानाम्ना कुमारेण साद्ध, कस्याऽपि गोत्रिण: स्वराज्यं समर्पयित्वा श्रीवीस्समीपे चारित्रं गृहीतं । भगवताऽपि स्थविराणां समर्पितो विजयसेननामा नवदीक्षितमुनिः सिद्धान्ताध्ययनेन क्रमेण महाज्ञानी जातस्तेन तस्य धर्मदासगणिरिति नाम दत्तं, स्वकीयशालकेन सुजयनाम्ना तु जिनदासगणिरिति नाम दत्तं, पश्चादेकदा भगवन्तमापृच्छय ते बहुसाधुपरिवृता भूमितले भव्यजीवान् बोधयन्तो विहरन्ति। अथासौ रणसिंहनामा बालो बाल्ये राजक्रीडां कुर्वन् यौवनमनुप्राप्तः सुंदरगृहे क्षेत्रकार्याणि करोति । अथ तत्क्षेत्रसमीपे चिंतामणियक्षाधिष्ठितमेकं श्रीपार्श्वनाथचैत्यं वर्तते, तत्र विजयपुरवासिनो बहवो लोकाः समागत्य श्रद्धापूर्वकं प्रतिदिनं पूजास्नानादि कुर्वन्ति, तेषां मनोऽभीष्टं यक्षः पूरयति । इत्थमेकवारं कौतुकविलोकनार्थ रणसिंहोऽपि तत्र गतः, तत्र च प्रतिमाभिमुखं विलोकयन् स्थितोऽस्ति। एतदवसरे चारणऋषयो जिनवन्दनार्थमागताः, तानभिवन्द्य रणसिंहोऽपि तत्पार्थे स्थितः, साधुनापि योग्योऽयमिति विज्ञाय तस्मै धर्मोपदेशो दत्तः, यदुक्तंखीकुक्षिमध्ये प्रथममिह भवे गर्भवासो नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिनं ॥ तारुण्ये चाऽपि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं
॥३॥