________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥२॥
स्थित्वा मनस्यैवं विचारयति स्म-मिग्मां दुष्कर्मकारिकां यदयं लघुबालो मया निहन्यते, इदं हि क्रूरं कर्म तदाचरणेनममन काऽप्यर्थसिद्धिः, प्रत्युतानों नरकादिगतिरूपः स्फुटतर एवेति विचार्य कूपकण्ठे बहुतृणाच्छादिते भूप्रदेशे तं मुक्त्वा पश्चादागत्य तत्कार्य कृतमित्यजयायै राज्य निरूपितं । तत् श्रुत्वा साऽतीवहष्टाऽचिन्तयव्यं कृतं मया यत्सपत्नीपुत्रो मारितः। अथ तदवसरे सुग्रामवासी कश्चित्सुंदरनामा कौटुंबिकस्तत्र तृणार्थमागतस्तेन च तत्र रुदन्तं बालं दृष्ट्वा संजातकारुण्येनोत्पन्नहर्षप्रकर्षेण समानीय निजगृहे स्वप्रियायै समीपतः स बालः, कथितं च भो सुलोचने! समर्पितोऽयं वनदेवतयाऽस्माकमतोऽयं यत्नेन रक्षणीयः स्वपुत्रवत्पालनीयश्च । सापितं सम्यक् पालयति, रणमध्ये लब्धत्वात्तस्य रणसिंह इति नाम दत्तं, द्वितीयोदितचन्द्रवत्स प्रतिदिनमेधते । अथ कियत्सु दिनेषु गतेषु विजयसेनराज्ञोऽग्रे केनापि तत्सर्व पुत्रमारणस्वरूपं निरूपितं तेन तस्य महदुःखं समुत्पन्नं, हा हा धिगस्त्विमां दुष्टां राी यया पुत्ररत्नं विनाशितं, अहो धिक् संसारस्वरूपं यत्र रागद्वेषाभिभूताः स्वार्थवशत एतादृकर्म समाचरन्ति, अतोऽस्मिन्नवस्थानमघटमानं, चलेयं लक्ष्मीः, चलाः प्राणाः, अस्थिरोऽयं गृहवासः पाशरूपः, अत: प्रमादमुत्सृज्य धर्मोद्यमो विधेयः, यदुक्तं-संपदो जलतरंगविलोला। यौवनं त्रिचतुराणि दिनानि ॥ शारदाप्रमिव चमलमायुः। किं धनैः कुरुत धर्ममनिन्द्यम् ॥१॥सा नत्थि कला तं नस्थि ओसहं । तं .
IIRII