SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१॥ ॥ अर्हम् ॥ श्री शंखेश्वरपार्श्वनाथाय नमः । श्री प्रेम-भुवनभानु-पद्म- हेमचंद्रसद्गुरुभ्यो नमः । ॥ अथ श्रीरणसिंहचरित्रं ॥ जम्बूद्वीपे समृद्धं विजयपुरं पुरमस्ति, तत्र विजयसेनो नृपः । तद्गृहे अजयाविजयानाम्न्यौ द्वे राज्ञ्यौ । तयोर्मध्ये विजयानाम्नी राज्ञोऽतीववल्लभा, भर्त्रा सार्द्ध विषयसुखमुपभुञ्जाना विजया गर्भवती जाता, तामापन्नसत्त्वां दृष्ट्वा अजयया चिन्तितं मम पुत्रो नास्ति, यदि विजयायाः पुत्रो भविष्यति तदा स राज्याधिपतिर्भविष्यतीति विज्ञाय द्वेषवशेन सूतिकारिकामाहूय बहुधनदानं प्रतिश्रुत्य कथयति स्म, यदा विजयायाः पुत्रो भवेत्तदवसरे कमप्यन्यसत्कं मृतपुत्रमानीय तस्या दर्शयेः, तदीयमङ्गजं च ममार्पयेरित्यग्रतस्तया सार्द्धं विचारः कृतः, पश्चाद्विजयाराज्ञ्या संपूर्णकाले पुत्रः प्रसूतः, तदवसरे पापीयस्या सूतिकारिकया मृतोऽन्यसत्कः कश्चिद्वालस्तस्यै दर्शितः, तदीयोंऽगजश्च सपत्न्यै अजयाराज्ञ्यै समर्पितः, तयापि दासीमाकार्य कथितं एनं बालं वनेंऽधकूपे प्रक्षिपेति साऽपि तं गृहीत्वा वनं गता, कूपसमीपे अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥१॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy