SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ अथ धर्मप्रभावे । सिद्धदत्तकथा॥ ॥१०॥ ऋद्धिप्राप्तिः ? । गुरुभिरुक्तम्-विशालापुयां मातृदत्त-वसुदत्ती वणिजौ । आद्यः साधुपार्थे गृहीतस्थूलपरद्रव्यग्रहणनियमः, नेतरः । शुद्धाशुद्धव्यवहारपरौ दरिद्रौ । अन्यदा द्रव्याऽर्जनाय पुण्डपुरे गतौ। तत्र निर्लोभताविषये मातृदत्तस्य प्रसिद्धिर्जाता। तत्रत्यसुतेजनृपेण निर्लोभतापरीक्षायै वनमार्गे रत्नकुण्डलं मार्गे क्षिप्त्वा प्रच्छन्नं नराः स्थापिताः । ते च तद्गाहिनरान् दण्डयन्ति । कदाचित्तौ समायातौ । अग्रे गच्छन् मातृदत्तस्तत्कुण्डलं लोष्टवत् त्यक्त्वा जगाम। पश्चादागच्छन् वसुदत्तस्तजग्राह । ग्रहणे मातृदत्तेन निवारितोऽपि यावन्न तिष्ठति तावदासनस्थै राजपुरुषैधृतः । मातृदत्तेन पुनर्मोचितः । राज्ञा मातृदत्तस्य निर्लोभतां ज्ञात्वा सत्कृत्य भाण्डागारित्वं दत्तम् । राज्ञो बहुमत: सुखितोऽखण्ड- धर्ममाराध्य मृत्वा चन्द्रभायां पुर्या धनपतिधनवत्योः पुत्रः सिद्धदत्तनामा दृढधर्मप्रभावाजातः। वसुदत्तोऽपि कूटस्वभावो मृत्वा द्यूतकारो विप्रसुतो जातो दारिद्यवान् दुःखी । इत्येवं तयोः पूर्वभवं श्रुत्वा विशेषतो धर्मपरायणो जातो राजा वैराग्याद्राज्य सिद्धदत्तस्य दत्त्वा गुरूणां पायें दीक्षां जगृहे। सिद्धदत्तोऽपि बहनि वर्षाणि राज्यं प्रपाल्याऽन्ते स्वपुत्रस्य राज्यं ६२ दत्त्वा वैराग्यात् प्रव्रज्य सिद्धः। ॥ इति श्रीधर्मप्रभावे सिद्धदत्तकथा॥ ॥१०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy