________________
श्रीजैन कथासंग्रहः
॥९॥
***
तत्रासनोपविष्टया त्रैलोक्यसुन्दर्या एष सर्वोऽपि वृत्तान्तोऽश्रावि । अहो ! मयाऽभागिन्या एष सत्त्ववान् पाणिगृहीतोऽपि त्यक्तः । एकैषाऽप्यस्ति या पूर्ववृतं महाकुलसंभूतमपि वरमेनं त्यक्त्वा गुणैरेव ज्ञातकुलगोत्रं भाग्यवती वरयत इति । ततो ममाऽप्येष एव वरोऽस्तु । इति निश्चित्य त्रैलोक्यसुन्दर्याऽभाणि देवो न तल्लङ्घयितुं समर्थः । इत्युक्ते राज्ञा पृष्टम् किं कथयसि वत्से ! । ततस्तयोचे तात ! श्रूयताम् यदा युष्माभिर्मा यौवनवयः प्राप्तां ज्ञात्वा वरायोपक्रान्तं, तदा मयाऽचिन्ति-तातो महाकुलोद्भवं महर्द्धिकं वरं विलोकयिष्यति । मम तु कलावानभिरुचित इति । ततो मया वीरसेमेन सह सङ्केतः कृतोऽभूत् । परं स कस्मादपि नागतः, कथमपि एष एवागतः, अन्धकारेऽनुपलक्षितः पाणिगृहीतः, पश्चादुपलक्षितः, पुनर्मयाऽभागिन्या त्यक्त इति । ततो धनसारश्रेष्ठिपुत्री रूपवती उवाच तस्मान्न शोको न हि विस्मयो मे इति । ततो राज्ञा पृष्टा साऽप्युवाच सर्व निजवृत्तान्तम् । ततो वसुमती दृढीकरणाय श्लोकपूरणाय चाकथयत् यदस्मदीयं न हि तत्परेषाम् इति । एवं प्राप्तव्यमर्थिकस्य कन्यात्रयपाणिग्रहणं कारयित्वाऽर्द्धराज्यं दत्तम्, युवराजपदे स्थापितः, पञ्चशतग्रामा दत्ताः । एवं वधूत्रययुतः सिद्धदत्तः सुखलीलया कालं गमयति ।
एकदा प्रस्तावे तन्नगरोद्याने श्रीधर्मघोषसूरयः समवसृताः । तान् वन्दितुं राजा सिद्धदत्तयुवराजादिपरिवारपरिवृतो जगाम। धर्मदेशनाऽन्ते राज्ञा पृष्टम् - भगवन् ! केन कर्मणा सिद्धदत्तस्येतावती
****
*******
॥ अथ धर्मप्रभावे सिद्धदत्तकथा ॥
॥९॥