SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥८॥ वरः केनापि कृतो न भवति इति। एवमुभयेषां कलहो जातः।तं कलहं श्रुत्वा राज्ञा कश्चिजनः पृष्टः किमेतद् र ? तेनोचे कलहस्वरूपम् । ततः सर्वे कलहायन्तो नृपसमीपे आगताः । प्राप्तव्यमर्थिकोऽपि सार्धमागतः । ते डर ८ ॥अथ धर्मप्रभावे राजमन्दिरे आगता विवदमाना राज्ञा पृष्टा:- कस्माद् यूयं विवदथ ! । वरपक्षजैरूचे- स्वामिन् ! अनेन २ सिद्धदत्तकथा॥ जिनदत्तेन पूर्व स्वसुताऽस्मद्वरस्य दत्ता । अधुना तु वरो मण्डपे आगतस्तदैतत्पुत्री कथयति नाऽहं वरं करिष्य इति । ततो राज्ञा पृष्टो जिनदत्त उवाच- राजन् ! अहं न जाने, एषा मम पुत्र्यवजानाति । ततो नृपेण सा पृष्टात्वं कस्मादेनं त्यक्त्वा एनमज्ञातकुलगोत्रं भिक्षाचरं प्राप्तव्यमर्थिकं वरयसे? इति । ततः सोचे-स्वामिन् ! श्रूयताम् । यदाऽसौ मां पाणिग्रहीतुं मण्डपे समागतस्तदा युष्माकं गजो वाद्यध्वनित्रस्तस्तत्राऽऽगात् । तद्धिया सर्वे लोकास्त्रस्ताः। तदा एषोऽपि मामेकाकिर्ती गजेन्द्रमुख एव त्यक्त्वा नष्टः । ततः सत्पुरुषेण कृपावताऽनेन प्राप्तव्यमर्थिकेनाऽहं तस्मान्मरणान्तकष्टात् त्राता। ततो मयाऽचिन्ति यो मां चत्वरिकान्तरे चैवंविधे कष्टे 'गते त्यक्त्वा गतस्तस्याऽग्रे ममोपरि कः स्नेहो भावी ? ममाऽप्यनेनैवंविधेन का रक्षा भाविनी?, इत्यसौ त्यक्तः । येन चाऽहमधुनाऽप्येतस्मात् कष्टात् त्राता स मम पश्चादपि त्राता, तेन च सह पश्चादप्यभङ्गा प्रीति विनी। एतस्य कुलगोत्रादिकमपि तादृगद्धतशौर्य-धैर्य-गाम्भीर्यादिगुणैरेव च, विस्मितो नृपः प्राप्तव्यमर्थिकपावें स्वकुलगोत्रादिकं प्रश्नयामास । ततस्तेन गाढस्वरेणोचे-प्राप्तव्यमर्थ लभते मनुष्य इति । अत्रान्तरे expresersee的路 ॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy