________________
कथासंग्रहः
। ॥ अथ धर्मप्रभावे २ सिद्धदत्तकथा॥
॥७॥
साद्ध प्रचचालतत्पृष्ठौ। एवं वाद्यनिनादाऽभिराम् 'नगरान्तर्वजन् तस्मिन् जिनदत्तगृहे पाणिग्रहणस्थाने यावता वरो जगाम चत्वरिकायास्तावता तनगरराज्ञो हस्तिशालायाः कश्चनाऽपि हस्ती तद्वाद्यध्वनिश्रवणान्मदोन्मत्तो जात आलानस्तम्भमुन्मूल्य निर्जगाम । स हस्ती राजमन्दिरानगरे प्रमन् हट्टश्रेणिं पातयन् वृक्षमालामुन्मूलयन् निनादाऽभिमुखमागच्छन् लोकलक्षास्त्रासयन् चत्वरिकायामेवागतः । तदर्शनाल्लोकाः सर्वे दिशोदिशं त्रेसुः। वसुदत्तोऽपि वधूं त्यक्त्वा भयभ्रान्तो नष्टः । गजो मण्डप-चत्वरिकादि पातयन् वभ्वासन्न एव गतः । अत्रान्तरे तत्रासन्नस्थेन प्राप्तव्यमर्थिकेनाऽचिन्ति-आः! कष्टमनर्थो भावी । एतस्याः कन्याया विनाशो भावी । ततः करोमि रक्षामेतस्याः। इति विचिन्त्य स साहसनिधिः काष्ठमेकमुत्पाट्योत्थाय हस्तिनं कुम्भस्थले जघान । एवं लब्धलक्ष्यत्वेन प्रमयित्वा विलक्षीकृत्य वशीकृतस्तेन गजः । बद्ध्वाऽपित आरक्षकाणाम् । तैश्च हस्तिशालायां बद्धः । ततः सर्व स्वस्थं जातम् । पुनः सर्वे वरपक्षजा वधूपक्षजाच मिलिताः । तेषां सर्वेषां शृण्वतां वध्वाऽभाणि- अहं येन हस्तिन: पार्वात् त्राता स एव मम वरः । तं विनाऽन्यं प्राणान्तेऽपि नेच्छामीति । इति कन्यावचः श्रुत्वा वरपक्षजा जगुः- अस्माकं वरो मण्डपे चत्वरिकायामागतो विवाहं कृत्वैव यास्यति । कन्याऽपि यस्य दत्ता तस्यैव, नाऽन्यस्य भवति इति । ततो वधूपक्षजैरूचे-वरः स एव यं कन्या वाञ्छति। १ प्राप्ते।
॥७॥