SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६॥ **** **** मानितो बलात्कारेण । ततस्तस्यामेव त्रयोदश्यां तस्मिन् देवकुले तेन सह सङ्केतं चकार । तत आगते 'तस्मिन् सा सर्वां पाणिग्रहणसामग्रीं कृत्वा सङ्केतदेवकुले आगात् । ततो 'गुणश्चिन्तयामास - एवंविधमकृत्यं कः करिष्यति ? इति विचिन्त्य नागतः संकेतस्थानम् । यावद् रूपवती संकेतस्थानं गता तस्य मार्ग विलोकयति तावता प्राप्तव्यमर्थिकः प्राप्तः । स एवाऽऽगत इति विचिन्त्य तयाऽनुपलक्ष्यैव सहसा तमसि तस्य पाणिग्रहणं चक्रे । कृत्वा हृष्टया तथा वादितः स्वामिन् ! कस्मादुत्सूरश्चक्रे ! । ततो यावता स न वक्ति ततः सा पुनः पृच्छति, न तिष्ठति । ततस्तेनोक्तम्; प्राप्तव्यमर्थं लभते मनुष्य इति । तत उपलक्षिते सा दूना चिन्तयामासआ! किं कृतं मया भागिन्या ? त्रैलोक्येऽपि यो मूख विदितः स वृतः । हा ! पापदैव !, किं कृतम् ? । अन्यथा चिन्तितं कार्य दैवेन कृतमन्यथा । राजकन्याप्रमादेन भिक्षुको व्याघ्रभक्षितः ॥ १ ॥ इति । ततस्तयाऽचिन्ति-अस्तु ! किं शोकेन ? यतो मां विना केनाऽप्यथाऽपि मम कृत्यं ज्ञातं नाऽस्ति । अनेनाऽप्युपलक्षिता नाऽस्मि । ततो यामि स्वस्थानं नंष्ट्वा । इति चिन्तयित्वा सर्वां विवाहसामग्री गोपयित्वा सा जगाम निजगृहम् । पुनः प्राप्तश्चतुष्पथे, पश्यति स्म तन्नगरवासिन एव वस्तुपतिव्यवहारिणः सुतं वसुदत्तनामानं जिनदत्तनाम्नो व्यवहारिणः सुतां वसुमतीं परिणेतुं गच्छन्तम् । प्राप्तव्यमर्थिकोऽपि कौतुकार्थी बहुलोकेन १ त्रयोदशीदिवसे । २ गुणसुन्दरः । ३ क्रियाविशेषणम् •************* ॥ अथ धर्मप्रभावे सिद्धदत्तकथा ॥ ॥६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy