________________
3
श्रीजैन कथासंग्रह
॥अथ धर्मप्रभावे सिद्धदत्तकथा॥
॥५॥
अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध आगतः । तेन मनिका दृष्टा। स कौतुकी गत्वा तस्यां कन्यामुक्तमचिकायामुपविष्टः । ततस्तया ज्ञातमागतोऽसौ वीरसेनः । ततः सखीभिर्मञ्चिकाऽऽकृष्य गृहीतोपरिभूमी। समौनं कृत्वा स्थितः । रात्रावन्धकारे परिणीतः सन् वादितः, स्वामिन्नुत्सूरे कुतः समागतः? ततस्तेनोक्तं-प्राप्तव्यमर्थ लभते मनुष्य इति । तत उद्द्योतं कृत्वोपलक्षिते सा शुशोच आः ! किं कृतं मया पापिण्या!, जगत्यपि विदितो मूों यया परिणीतः। ततः सखीभिरुक्तम्-मा विषादं कुरु, अद्याऽप्यावाभ्यामेव ज्ञातमस्ति । अन्यैः कैश्चिदपि ज्ञातं नास्ति । अत एष भापयित्वा मञ्चिकायां क्षिप्त्वाऽधो मुच्यते । ततो मुक्तो मञ्चिकायां क्षिप्त्वा। तत उत्तीर्य स नगरे भ्रमन् प्रतोल्यासन्ने शून्यं तलारपल्यथं दृष्टा तत्र सुष्वाप । ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण वादित उवाच प्राप्तव्यमर्थ लभते मनुष्य इति । ततस्तेनोपलक्ष्योत्थाप्याऽऽसन्नदेवगृहे प्रेषितः । स उत्थाय देवगृहे गतः।
अत्रान्तरे तनगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगुणं वरमिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् । तां च प्रार्थयन्ती प्रति तेनोक्तम्अहमेवं प्रच्छन्नं तव पाणिग्रहणं विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि । ततो न वाच्यं मामेतद्विषये इति । तयोक्तम्-एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः । इत्युक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं
॥५॥