________________
श्रीजैन
कथासंग्रहः
॥अथ धर्मप्रभावे र सिद्धदत्तकथा ।
॥४॥
- विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥२
इति विचिन्त्य सा त्रैलोक्यसुन्दरी तन्नगरवासिमतिसागरप्रधानसुतवीरसेनस्य स्वेन सार्द्धमेकोपाध्यायपाऽधीयमानस्य रूप-सौभाग्य-कला-कौशल-विद्यादि दृष्ट्वा तस्मिन्नध्युपपन्ना' सती एकदा रहसि तमुवाच-यत्त्वया मम पाणिग्रहणं कार्यमिति। ततस्तेन कुमारेणोक्तम्-आवयोः क्व योगः!, यतो भवती राज्ञः पुत्री, अहं तु तस्य सेवकः, इत्येषा वार्ता न वाच्येति । ततस्तयोक्तम्- चेन्मदीयं वचः करिष्यसि तदा तवाऽपि भव्यं भविष्यति, नो चेन्न । ततस्तेन कुमारेण भीतेन प्रतिपन्नम् । तया सङ्केतश्चक्रे, यत् शुक्लत्रयोदशीरात्री अहं गवाक्षे मञ्चिकां रजौ बद्ध्वा मोक्ष्ये, तस्यामुपविश्य भवता मदीयाऽऽवासोपरिभूमावागन्तव्यमिति । इति सङ्केतं कृत्वा स्वाऽऽवासे गता। सङ्केतदिने चाऽगते सा प्रच्छन्नां सर्वा विवाहसामग्री मेलयित्वा रात्री स्वावासोपरिभूमौ मञ्चिकां सजीकृत्य स्थिता। ततो वीरसेनेन चिन्तितम्को नाम बलात्कारपाणिगृहीतस्त्रियः पाशे पतिष्यति ? इति विचिन्त्य स सङ्केते नागऽऽतः।
१आसक्ता।
॥४॥