SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥अथ धर्मप्रभावे सिद्धदत्तकथा॥ ॥३॥ ततो'तो लोष्टमुत्पाट्योत्थितः, चेन्न दत्से तर्हि भक्ष्यामि भवतीम् इति वदन् । ततो भीतया देव्या तस्यैषा पुस्तिकार्पिता। दीनारपञ्चशत्या विक्रेयेति चोक्तम् । ततः स पुस्तिकांगृहीत्वा नगरान्तों विक्रीणन् लोकैर्मूल्यं पृष्ट आह ५०० पञ्चशतानि दीनाराणाम्। ततो लोकैर्हसितःसममाडे आगतः। मयाऽनुकम्पया किञ्चिदर्पयित्वा गृहीता सैषा पुस्तिकेति। ततः सिद्धदत्तेन सा पुस्तिका च्छोटयित्वाऽवाचि । प्राप्तव्यमर्थ लमते मनुष्यः इति पदं तस्य रुचितम् । ततो निरन्तरमेतत्पदं पठन् नगरे नित्यं भ्रमति । ततो लोकैस्तस्य प्राप्तव्यमर्थिक इति नाम दत्तम् । एवं नगरे प्रसिद्धो जातः। इतश्च नगरेऽरिमर्दनराज्ञः पुत्री त्रैलोक्यसुन्दरी बहुच्छात्रमध्यगता उपाध्यायस्य पार्श्वे ऽधीते । सा चाऽधीतसकलकला प्राप्तयौवना वरार्थिनी चिन्तयामास-तातो महर्द्धिकं महाराजपुत्रं वरं मे दास्यति । मम तु कलावानेवाऽभिरुचितः, किं महर्द्धिकत्वेन!। यत: विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन। स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते॥१॥ १धूतकारः। ॥३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy