SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥अथ धर्मप्रभावे २ सिद्धदत्तकथा॥ .. लोकास्तस्याऽनुकम्पया भोजनाऽऽच्छादनाउदि ददति । एवं सिद्धदत्तो वर्द्धते । एक्दा नगरे भ्रमन् स कस्यापि व्यवहारिणो हट्टे गतः । तत्र चैकां पुस्तिकां दृष्ट्वा पृष्टम्-कैषा पुस्तिका, कथमायातेति ? ततस्तेन व्यवहारिणोक्तम् - शृणु, अस्मिन्नेव नगरे कश्चनाऽपि द्यूतकारो द्यूतेन हारितसर्वस्वः प्रतिदिनमाशापूरीक्षेत्रदेवीगृहे दीपतैलेनाऽपूपान् भक्षयति । एकदा क्रुद्धया देव्या तस्य भापनाय जिह्वा कर्षिता । ततस्तेन निःशूकत्वेन जिह्वायां थूत्कृतम्। देवता तथैव स्थिता। प्रातरागतैर्लोकदृष्ट्वाऽरिष्टमिति कृत्वा शान्तिकपूजादिकं कर्तुमारब्धम् । तथापि जिह्वाया असंवरणे द्यूतकृदाह- यदि मे दीनारशतं ददत पूजायै, तदाऽहं प्रपूज्य शान्तिं कुर्वे । पश्चाद् वस्त्रादि च मे देयम् । ततो लोकैदीनारशतं दत्तम् । रात्री तेन देवीभवने गत्वा स्तुति-पूजादिकं किञ्चित् किञ्चित् कृतम् । तथाऽपि जिहां न गोपयति । तदा तेनोक्तम् गोपय जिह्वां, चेन्न गोपयसि तदा पुरा थूत्कृतमेवाऽस्ति' अधुना विष्टां क्षेप्पयामि। ' इत्युक्त्वा यावता विष्टायै चलति तावता देव्या भीतया गोपिता जिह्वा । प्रातर्लोकाः समागताः। जिहां गोपितां दृष्ट्वा हृष्टाः । मङ्गलं जातम्। ___एवं काले याति अन्यदा द्यूतकृता 'रमता बहुहारणे देव्याः पूजादिकं कृतम् । परं सा किमपि न ददाति। १निर्दयत्वेन निर्लज्जत्वेन वा । २ स्मे च वर्तमाना। सिद्ध.५-२-१६ इत्यनेन पुरायोगे भूतकालेऽर्थे वर्तमाना। ३ रममाणेन। . ॥२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy