________________
श्रीजैन
निद्रव्यविप्रकथा
कथासंग्रहः
॥२॥
स्वामिन् ! 'धूम्नमूर्जितमर्जय'। उद्यमे नास्ति दारिद्यमिति लोकश्रुतिर्यतः॥८॥ तद्धार्योक्तं वचः श्रुत्वा विष्णुशर्मा व्यचिन्तयत् । अहो! मे मन्दभाग्यत्वं यदाऽजन्मापि दुःस्थता॥९॥ गृहस्थानां धनं प्राणा गुणा रूपं यशः श्रियः । तद्धनं घनमानेष्ये, श्रित्वा देशान्तरं स्वयम् ॥ १०॥ ध्यात्वेति विष्णुशर्मोया घनान् देशानथाऽभ्रमत् । तथाऽपि क्वाऽपि न प्राप निर्भाग्य: श्रेयी श्रियम् ॥ ११ ॥ प्रवीणं क्वाऽपि सोऽप्राक्षीद् ब्राह्मणं द्रविणेच्छया। द्रव्यस्योपार्जनोपायं कृपया सोऽपि चाऽभ्यधात् ॥१२॥ रत्नद्वीपोऽस्ति वाद्यन्तस्तत्र रत्नखनीश्वरी। आराध्या देवता दत्ते रत्नं भाग्याऽनुमानतः ॥ १३ ॥ इति तस्योपदेशेन रत्नद्वीपमियाय सः । रत्नखानीश्वरी देवी प्रसादयितुमाद्रतः ॥ १४ ॥ स्नातः कृतोपवस्त्रश्च धौतचीवरपीठरुक् । पुष्पैरभ्यर्च्य तां देवीमुपविष्टस्तदग्रतः॥१५॥ सोऽथ द्रव्येच्छया तस्थावेकविंशतिवासरान् । निराहारस्ततो देवी प्रादुर्भूयाऽवदत् क्षणात्॥१६॥रे! त्वं निष्पुण्यकोऽसीति मद्नेहा याहि सत्वरम् । नो चेदनर्थस्ते भावी धनं धर्माद् ऋते न यत् ॥१७॥ इत्येवं देवतावाचं श्रुत्वाऽतिसाहसी द्विजः । यदि स्यात् सुकृतेनाऽर्थस्तत् किं ते देवि ! वैभवम् ॥१८॥ निर्भाग्यस्याऽपि तद्देवि ! देहि चिन्तामणिं मम । नो चेत्तदाऽहं स्वप्राणान् मक्षु त्यक्ष्यामि ते पुरः ॥ १९॥ इत्युदीर्य स्फुरद्वीर्यः क्षुरीमाकृष्य सत्वरम् । द्विजो निजं शिरच्छेत्तुमुपचक्राम स क्रमात् ॥ २०॥ ततस्तुष्टाऽस्य
द्रव्यम् । २ विपुलम्।
॥२॥