________________
श्रीजैन
कथासंग्रहः
॥३॥
*************
सत्त्वेन दत्त्वा देवी मणिं मुदा । तडिल्लेखेव सा शीघ्रं जगाम निजधामनि ॥ २१ ॥ ततोऽसौ सिद्धसर्वार्थो निजगेहं प्रति द्विजः । प्रतस्थेऽम्बुधिमार्गेण यावत्तावन्निशाऽऽगमत् ।। २२ ।। ततः क्रमाच्छिरोदेशे पूर्णेन्दुर्गगनेऽगमत् । किमयं द्युतिमान् किंवा मन्मणिः स्यादितीक्षितुम् ।। २३ ।। द्विजातिस्तं मणिं हस्ते गृहीत्वाऽऽलोकयत् क्षणम् । चन्द्रबिम्बे मणौ चापि दृष्टिं चिक्षेप स क्षणम् ॥ २४ ॥ इत्येवं कुर्वतस्तस्य निर्भाग्य कच्च्युतः । पपात मणिरम्भोधी चैतन्येन समं तदा ॥ २५ ॥ क्षणेन लब्धचैवं * मुहुर्मुहुः । यावज्जीवं ततो दुःखी सोऽभवद् 'ब्राह्मणब्रुवः ॥ २६ ॥ अपातयद्विजो मुग्ध था मणिमटन् । तथा नृजन्म निर्द्धमों गमयत्येव मानवः ।। २७ ।। ज्ञात्वैवं विदुषा कार्यों धर्मकार्ये सदाऽऽदरः । मानुषोऽयं भवः प्राप्तो न निर्गम्यः प्रमादिना ॥ २८ ॥
॥ इति प्रमादोपरि निर्द्रव्यविप्रकथा ।।
१ अधमब्राह्मणः ।
***
********
निर्द्रव्यविप्रकथा
11311