________________
श्रीजैन
कथासंग्रहः
॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥
X
॥५५॥
भिनन्दी॥८॥तद्धानिखेऽर्क इव चारुप्रतापधामा, प्रोद्योतवैमलमुनिर्बुधराविरेजे। उद्योतितञ्जिनविदितधर्मवम, येनात्र देहिनिकरेऽखिलसातकारि ॥९॥ तत्पट्टनन्दनवनोत्तमनाकिशाखी, पंन्यासदानविमलोव्यघराबभूव। यज्ज्ञानपावननदीजलपानपूताः केनो बभूवुरिह शान्तमनोऽभिलाषा: ?॥१०॥ तत्पाटविन्ध्यकरिराजमहातपस्वी, श्रीमद्दयाविमलविज्ञमुनिर्बभूव । प्रद्युम्नशस्त्ररमणीगणवेष्टितोऽपि, ब्रह्मव्रतं न च जहौ किल यो मनस्वी॥ ११ ॥ तत्पदृमानसचरद्वरराजहंसः, सौभाग्यवैमलमुनीश्वरविज्ञविज्ञः । जज्ञे च यो विमलबोधजनावतारी, शान्तः शुचिः शिवमतिर्विममः परार्थी ॥१२॥ प्राभूषयत्तकपदं विमलैर्गुणैः स्वः, पंन्यासमुक्तिविमल: समयाम्वनीनः । योऽभूच्छिशावपि महान् बुधसाधुरत्नम्, धीरः कृती निजपरागमदक्षशिक्षः॥१३॥ तेनाञ्जनाचरितमेतदनय॑रत्न, इब्धं परं सुरसदो ययिवान् महात्मा । वेदाद्रितत्त्व रजनी पतिभाविताब्दे, भाद्रे सिते युगतिथी वरपर्वभाजि ॥ १४ ॥ यातेऽव्यये गुरूवरे गुरुधामधाम्नि, शब्दादिशास्त्रनिपुणे निपुणो विनेयः । तत्पूर्तिमार्यमहितस्तकपादभृङ्गः, पंन्यासरङ्गविमल: समकारयद्वै॥१५॥ तत्पूर्तिका गुरुवरक्रमकानुकम्पा-तोऽभुत्प्रधाननगरे विशपूर्वरम्ये ग्लो'खां युग्म प्रमिते वरवत्सरेऽलं, भाद्रे सिते दशतिथौ कलगोर्जराब्जे॥१६॥
श्रीमत्तपागच्छमहाकाशवासरमणिशासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थ
पातेऽव्यये
गबदा दितत्वाशक्षः॥१Mमयाम्वनीनःमः परार्थी
॥५५॥