________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जना - XXसुन्दरीचरित्रम् ॥
॥५३॥
अव्ययपदमालेभे, द्वन्द्वातीतमनुत्तमम् ॥ १५३ ॥ इत्थमेतन्महादिव्य-मञ्जनाचरितामृतम् । कणे हत्य महाभागाः, पिबन्तु भवमुक्तये ॥ १५४ ॥ चरितंग्रथितञ्चासी- च्छ्रीमत्पंन्यासमुक्तिना। परं मध्ये ययौ स्वर्ग, भाद्रे मासि सिते दले ॥१५५॥ पर्युषणमहापर्व, -चतुर्थ्याच वयो लघुः । युगशैलाङ्कचन्द्राब्दे, रम्यराजपुरान्तरे॥१५६॥ तत्पट्टारामकल्पद्रुः, सम्पूतिमतनोदय । श्रीमत्पंन्यासरङ्गादि, विमलान्तमुनीश्वरः ॥ १५७ ॥ भूस्वर्गार्जरदेशस्थ-विशादिनगरे वरे । चन्द्राभ्ररवद्वये वर्षेऽभूदस्य समाप्तिका ॥ १५८ ॥ चरित्ररत्नमेतद्धि, येषां भाति गलान्तरे । दुष्कर्मध्वान्तनाशो हि, भूयात्तेषां ततोऽमृतम् ॥ १५९ ।। सत्यञ्जनावायुकसङ्गरम्ये, नीरेशयुद्धादिजयप्रकाशे । पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छः समाप्त: शिववृत्तबाणः॥१६०॥ इति श्रीमत्तपागच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थपोडशीयोद्धारक-क्रियोद्धारक आचार्य
भगवान्-श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ-सकलसंवेगिशिरोमणि-पंन्यासदयाविमलगणिशिष्यरत्नपण्डितशिरोमणि-श्रीमत्पंन्याससौभाग्यविमलगणिवर-शिष्यरत्नपंन्यासमुक्तिविमलगणिविरचितेअञ्जनासतीचरित्रेअञ्जनावायुसङ्गम-वरुणयुद्धविजय रमणीयतमः पवनझायाञ्जनाहनुमदादि-दीक्षाग्रहणनिर्वाणपवित्रितः पञ्चमो गुच्छः समासः॥
१आकण्ठम् ।
॥५३॥