________________
,
कबासंग्रहः
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥५२॥
पजासवभृषिका। विमुखीभूयभूसौख्या क्षणिकाऽऽपातभारात् ॥ १४० ॥ अभ्यणे चन्द्रसूरीणां, गृहीत्वा व्रतमुत्तमम् । ध्यानानलेन कर्मेन्धं, दग्ध्वा मोक्षमुपागमत् ॥ १४१ ॥ हनुमानपि भव्यात्मा, तारहारयशाः सुधीः । आत्मवत्सकलां क्षोणी, पालयामास धर्मतः ॥ १४२ ॥ एकदा मधुमासस्य, राकायामञ्जनीसुतः । शाश्वतचैत्यवन्दारु-जंगामामरभूधरम् ॥ १४३ ॥ प्रकाश्य निखिलं विश्वं, विशन्तमपराम्बुधौ। सहसमालिनं दृष्ट्वा, दध्याविति मरुत्सुतः ॥१४४ ॥ आकीटब्रह्मपर्यन्तं, सर्वे ये जीवराशयः । उदयन्ति विलीयन्ते, भ्रमन्तो भवसागरे॥१४५॥ सहस्ररश्मिरेवात्र, जगत्काशी महाप्रभः। दृष्टान्तः किम्परैः सोऽपि, चोदयास्तगति: सदा॥१४६ ॥ पदार्था यत्र विद्यन्ते, नाशवन्तोऽखिला बत! । प्रपञ्चबहुलाध्यासं, धिग् धिग् संसारमीदृशम् ।।१४७॥ संसारासारताप्राप्त-ज्ञानोदयमहोदयः । हनुमान प्राप्तवैराग्यो, ययौ स्वां नगरीं ततः ॥ १४८ ॥ आप्तमित्रादिबन्धुभ्यः, सूचयित्वाऽऽत्मभावनाम् । निर्वाणपदसन्दात्री-दीक्षायात्युद्यतोऽभवत् ॥ १४९ ॥ राज्यभारं प्रजात्राणं, दत्त्वा सूनोश्च धीमतः । धर्मरत्नमहासूरे-रन्तिके दीक्षां ललावलम् ॥ १५०॥ साधुभावश्च तत्पल्यः, सर्वा अपि ततो व्रतम् । आर्यालक्ष्मीवतीपार्श्वे, जगृहुर्भवभीरवः ॥ १५१ ॥ क्रमशो विचरन् क्षोण्यां, हनुमांश्च महामुनिः । प्रादहत्सर्वकर्माणि, दिव्यध्यानकृशानुना ॥ १५२ ॥ दशां शैशिकां प्राप्य-सर्वत्र समभावनः ।
॥५२॥