________________
श्रीजैन कथासंग्रहः
॥४९॥
भुजस्फालनपूर्वकम्। युयुधुर्दशवक्त्रेण, दैत्या इव पुरारिणा ।। १०२ ।। सुग्रीवादिमहावीर - वरुणो 'जन्यमातनोत् । उभयोः सैन्ययोरेवं, प्राचलद्युद्धमुल्बणम् ॥ १०३ ॥ रक्तनेत्रैर्महावीर्यः, पाशिपुत्रैर्दशाननः । सङ्गरे खेदितोऽत्यन्तं, पोत्रीव' जात्यकुक्कुरैः ॥ १०४ ॥ कदर्थीक्रियमाणं तं, पाशिपुत्रैर्मुहुर्मुहुः । रावणं वीक्ष्य दुर्दान्त उवाचेति मरुत्सुतः ॥ १०५ ॥ रे पाशितनया मूढा, एकोऽयं शतसङ्ख्यकैः । कदर्श्यते चं धिग् युष्मान् - भवन्तु सज्जिताः पुनः ।। १०६ ।। मदोन्मत्त-महादन्ति- घटायामिव वायुजं । केसरिडिम्भवन्मक्षु प्राविशद्रिपुभीप्रदः ।। १०७ ।। स्वविद्यायाः प्रभावेण, हनुमांश्च जलेशितुः । बबन्ध तनयान्- सर्वान्, हरिणानिव जालिकः ।। १०८ ।। पशुवत्तनयान् बद्धान्-वरुणोऽपि निरीक्ष्य च । जज्वाल मन्युना भूरि-प्रलयानलवत्क्षणम् ।। १०९ ।। दन्तीव पथि सालांश्च, कम्पयन्-वरुणो बली। सुग्रीवादिमहायोधृन् दधावे वायुनन्दने ।। ११० ।। वर्षयन् विशिखश्रेणिं लङ्काऽधीशो जलेश्वरम् । अरौत्सीन्मध्य एवाशु-नदीवेगमिवाचलः ॥ १११ ॥
अनडुद्भिर्यथोक्षाणो, दन्तिभिर्दन्तिनस्तथा । क्रोधान्धपाशिना सत्रा, युयुधे रावणश्चिरम् ॥ ११२ ॥ मायावी युद्धविद्यायां निपुणो वरुणं शनैः । हस्तशस्त्रादिनिक्षेपैः खेदयित्वा दशाननः ॥ ११३ ॥ १. मुंड ।
॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥
॥४९॥