SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४८॥ ॥ ८९ ॥ उदीर्येति निरोधेन महता तौ निरुध्य च। स्वयं गन्तुं तदाज्ञां च प्राप्तवान् वायुनन्दनः ॥ ९० ॥ स्फुरन्तं तं तथा वीक्ष्य, फणिभोगमिवोत्कटम् । पवनः प्रतिसूर्यश्च प्रशशंस चुचुम्ब च ॥ ९१ ॥ तन्मौली ती करी धृत्वा, दत्ता चाशीः सहस्रशः। अकाष्टौ मङ्गलं प्रीत्या, प्रास्थानिकमनुत्तमम् ॥ ९२ ॥ परिष्कृतमणीवैष, दिदीपे कृतमङ्गलः । अनेन हत एवारि रमन्येताञ्च ताविति ।। ९३ ।। रथाऽऽरूढैर्गजाऽऽरूढै- रश्वाऽऽरूढैः पदातिभिः। सामन्तैर्भूमिविख्यातैः सेनाधीशैश्च सैनिकैः ।। ९४ ।। वेष्टितो विश्वतः खेऽर्को ग्रहैरिव महोज्ज्वलैः । चञ्चद्दोर्दण्डशौण्डीर्यः प्रतस्थे हनुमांस्ततः ।। ९५ । । । युग्मम् ॥ असङ्ख्यवाहिनीयुक्तः, क्रमशो हनुमांस्ततः । 'अहंयुरावणस्यागात्-स्कन्धावारमत्युद्धतम् ।। ९६ ।। मूर्तिमान् विजयश्चैषः, परो वाऽपरविश्वजः । व्यतर्कि रावणेनैवं, तदाकृतिनिरीक्षणात् ।। ९७ ।। प्रणमन्तं परं वीक्ष्य, हनुमन्तं दशाननः । दधन्मोदं स्वकाङ्के तं न्यवीविशत्सुतोपमम् ॥ ९८ ॥ पुण्यपीयूषपाथोधिं, वीरविक्रमशालिनम् । बाढं गाढमिमं प्रीत्या, सस्वजे रावणश्चिरम् ॥ ९९ ॥ ततो दुर्दमलङ्केशो, वरुणस्य पुरोऽन्तिके । गत्वा जन्याय सन्तस्थौ, बिलमूल इवाचलः ॥ १०० ॥ ततः पाशी च तत्पुत्राः, शतसङ्ख्या महाबलाः । निर्ययुर्निर्भयाः सद्यो, दर्य्या इव मृगाधिपाः ।। १०१ ।। पाशिपुत्रा रणव्यग्रा १ मानी । ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥४८॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy