________________
4
श्रीजैन
Xx
कथासंग्रहः और
4
सुन्दरीचरित्रम् ।।
॥४६॥
KKRKKK
आप्तमित्रवद्धिः सा, रक्षिता क्षान्तिसागरैः । साधु साधु महाभागा ! उत्तमानामियं स्थितिः॥४॥ पवनश्चिररात्रेण, प्रियां वीक्ष्य निजां सतीम् । उद्वेल इव पाथोधि-निवृत्तिमाप दुःखतः ॥६५॥ चिरप्रदीप्तशोकाग्नि, ज्वलत्कृशवपुस्ततः । प्रियाप्राप्तिसुधासेका-त्प्रशशाम प्रभञ्जनः ॥ ६६ ॥ चिरवाञ्छितलाभेन, मोदमापाति मारुतः । विनष्टार्थस्य लाभेन, तत्स्वामीव निरन्तरम् ॥ ६७ ॥ सर्वविद्याधरैर्भूय-स्तत्राऽऽनन्दपयोनिधौ । महामहो मुदा चक्रे, राकेन्दूपमपेशलः ॥ ६८॥ पश्चात्स्वैः स्वैर्विमानस्ते, प्रोज्ज्वलैगगनाङ्गणम् । सतारमिव कुर्वन्तो, हनुपुरमजीगमन् ॥ ६९॥ महेन्द्रभूपतिश्चापि, सह मानसवेगया। शच्येव वासवस्तत्र, मुदितात्मा समाययौ ॥ ७० ॥ देवी केतुमती चैवं, परे सम्बन्धिनोऽखिलाः । आययुर्मिलितास्तत्र, सुधर्मायामिवामराः ॥ ७१॥ इत्थं तत्र मिथो दैवाचिरात्सम्बन्धिनोत्करः । बान्धवा बन्धुभावाऽऽया, मिलिता हर्षमादधुः ॥७२॥ विद्याधरमहीना2मिलितैरतिहर्षितैः । पूर्वतोऽप्यधिकञ्चक्रे निजरेक्ष्यो' महोत्सवः ॥७३॥ तदाऽऽनन्दमहासिन्धुवीचिप्रेत्कलेवराः । बुबुधिरे न चात्मानं, समाधिस्थमना इव ॥ ७४ ॥ लब्धाऽऽज्ञाश्च मिथः सर्वे, कृतकृत्यास्तदुत्सवे । ओकांसि भेजिरे स्वानि, विमानानीव-नाकिनः ॥ ५॥ पवनोऽपि गतक्लेशः, १देवानामपि दर्शनीयः
॥४६॥