________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जना - सुन्दरीचरित्रम् ।।
॥४३॥
· देवता वोऽहं, प्रार्थये विनयान्वितः । साक्षिणो यूयमेवात्र, निर्जनेऽस्मिन् वने मम॥२३॥ यदि पश्यन्तु मे
कान्तां, कुत्राऽपि क्लेशपीडिताम् । वाचिकं मे पुरस्तस्या, वदन्तु हृदयङ्गमम् ॥२४ ॥ त्वद्वियोगेन दुःखार्तः, पतिस्ते पवनञ्जयः। स्वयं कृत्वा चितां तत्र, प्रविवेश त्वदाशयः ॥२५॥ उदीर्येति महाधीरो, ज्वलद्दीप्तचितानले। झम्पापातं समुत्प्लुत्य, यावत्कर्तुं समुद्यतः ॥ २६ ॥ तावदेव पिता तस्य, प्रहादः श्रुतवृत्तकः। ससम्ममं समागत्य, पतन्तं तं न्यवारयत्॥२७॥ गृहीत्वा प्रियपुत्रस्य, करौ द्वौ हृदयेन च। सस्वजे सुचिरं स्नेहः, सुतस्यात्र वचःपरः ॥२८॥ प्रियावियोगदुःखेन, पीड्यमानोऽनले पतन् । रुद्धोऽहकेन वा मृत्यौ, प्रत्यूहोऽयं कुतो महान् ॥ २९॥ विघ्नखिन्नमना वायु-स्तारस्वरमुवाच च । निर्जने कानने केन, त्वन्तरायः मृतौ कृतः ॥ ३०॥ अदृष्टक्रमसञ्चाराः, कान्तारान्तरदेवताः। आगत्य ताभिरेषोऽयं, साहसो विफलीकृतः ॥ ३१ ॥ वदतीति सुते सद्यः, प्रहादोऽश्रुवहन् बहु । जगादेति पिता तेऽयं, वधूपुत्रदुःखप्रदः॥ ३२॥ पुत्रवधूबहिष्कारे, कृतोपेक्षः स्खलन्मतिः । प्रहादो नितमां मूढो, दशेदृशी यतस्तव ॥ ३३॥ विवेकबुद्धिहीनाया, मातुस्ते सुतवत्सल!। अपराधो महान् येन, दुःखमेतद्विजृम्भितम् ॥३४॥ विरम मरणात्तात! तातदुःखानुबन्धिनः । स्थिरोभव च धीरोऽसि, मतिमानसिमा तप॥३५॥ त्वद्वधूशोधनार्थाय, मया विद्याधराः प्रिय !। आज्ञापिता: पुरा सन्ति, सहस्रशो महाधियः ॥ ३६ ॥
॥४३॥