________________
श्रीजैन
Xx
कथासंग्रहः
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥४२॥
APR
सूनुरस्मि तयोरहम् ॥ ९॥ नाम्नाऽझना प्रिया मेऽभून्महेन्द्रतनया सती । पाणिग्रहः सहाऽकारितया मोदप्रदो मया ॥१०॥ विवाहदिनतः किञ्च, दुर्दैवदुधिया मया। विनिर्दोषाऽपि सा बाला, कृता च बहुदुःखिनी ॥ ११ ॥ त्यक्त्वा तां स्वामिकार्याय, सरलां कुलजां प्रियाम् । रणदोर्दण्डकण्डूतिः, सङगरयात्राकृतेऽचलत् ॥१२॥ निर्दोषां दैवयोगेन, बुद्ध्वा तां कलभाषिणीम् । तत्प्रीतिपाशबद्धोऽहं, प्रत्यावृत्तस्ततस्त्वरा ॥१३॥ सप्तभूमिमये रम्ये, प्रासादे जग्मिवानहम् । व्यरंसि स्वेच्छया सत्रा, कान्तया तत्र शुद्धया॥१४॥प्रत्यभिज्ञाकृतेऽदायि, स्वनामाहितमुद्रिका। प्रच्छन्नः पुनरेवाह, स्वकटकमुपागमम् ॥१५॥ तद्दिने तत्क्षणे साऽपि, दधार गर्भमुत्तमम् । सुचारुक्षेत्रबीजोप्तिः, फलाय कल्पते न किम् ? ॥१६॥ सर्वथा शुद्धशीलाऽपि, मद्दोषेण विगर्हिता। कलङ्कभयत: पूज्यैः, पित्रादिभिर्बहिष्कृता॥१७॥ न जाने क्वास्ति सैतर्हि, धृतप्राणाऽथवा मृता। पुराऽपि चाधुना कान्ता, सती निर्दोषकेतनम् ॥१८॥ मदीयाज्ञानदोषेण, दुःखं प्राप्ता च दारुणम् । मत्समं निर्धियं क्रूर, घिधिक कान्तं खलाऽऽशयम् ॥१९ ॥ भ्राम्यता सकलां क्षोणी, शोधिता सा मया प्रिया। प्राप्तान मन्दभाग्येन, रत्नवद्रनकारवनौ॥२०॥ ज्वलज्ज्वालाऽनले देह-मतोऽद्यैव जुहोम्यहम् । कान्तां विनाच देहोऽयं, निष्प्रभमणिवन्मुधा ॥ २१॥ यावजीवञ्च जीवन् सन्, दुःसहो विरहानलः । तस्मान्मे मरणं श्रेयो, जीवितञ्च विनश्वरम् ॥२२॥ तस्माद्धो
.
॥४२॥
TIPS