________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जना - सुन्दरीचरित्रम् ॥
॥४०॥
MREKHA
साश्रुनेत्राऽनिलप्रसूः ॥ ईषत्क्रोधमुखी प्राह, पुत्रमित्रहसितं ततः ॥ ९६ ॥ प्रहसित ! महाक्रूर ! कठोरहृदयान्तर !। मर्तुकामं सुतं त्यक्त्वा -कथमत्र समागत: ? ॥ ९७ ॥ एकतो विपिनं घोरं, परतोऽसुविमोक्षणम् । असहायस्य ते पुत्र ! का दशा हि भविष्यति ? ॥ ९८ ॥ सङ्कटे व्यसने घोरे, रक्ष्यः शत्रुरपि ध्रुवम् । सखा ते पवनो हृद्य-स्त्यक्त्वा तं कथमागतः ? ॥ ९९ ॥ अथवा नितमां पापा, विवेकपथवर्जिता। अहमस्मि यया गेहा-त्स्नुषा साध्वी निर्वासिता॥१००॥ धिङ् मौर्यमविवेकित्वं, ममेह च मुहुर्मुहुः । ययाऽकारि कुलध्वंसि, कार्यमेतत्सुनिन्दितम् ॥ १०१॥ दृष्टाङ्गुलीयचिह्नाऽपि, रुदती पीडिता सती। निष्कासिता मया काल्या, पिशाच्या व्यनुकम्पया॥१०२॥ नष्टा वधूश्च पुत्रोऽपि, प्राणांस्त्यक्ष्यति चेत्तदा। मृत एव पिता तस्य, जात एव कुलक्षयः॥१०३॥अत्युग्रपुण्यपापाना-मिहैव फलमश्नुते । अयङ्कोविदवादोऽपि, सत्यं मयि त्वजीघटत् ॥१०४ ॥ इत्थं के तुमती राज्ञी, स्वनिन्द्यकर्मपीडिता । पुत्रवाचिकदुःखेन, पश्चात्तापमतिव्यधात् ॥ १०५ ॥ प्रत्यावृत्ते वायुकुमारवीरे, सत्यञ्जनान्वेषणवृत्तभव्ये। पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छश्चतुर्थः समगात्समाप्तिम् ॥१०६॥
इति श्रीमत्तपागच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-नियोद्धारक-श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत-तपोनिष्ठ-सकलसंवेगिशिरोमणि
॥४०॥