________________
श्रीजैन
कथासंग्रहः
॥ श्रीअञ्जनाXX सुन्दरीचरित्रम् ॥
॥३९॥
गतसज्ञोऽसौ, सस्वजे धरणी परम् ॥४२॥ लब्धसज्ञः पुनश्चाशा-पाशबद्धकमाम्बुजः । स्वस्थीभूय स्थिरीकृत्य, मनो दध्याविति स्फुटम् ॥ ८३॥ मनो मे शङ्कतेऽद्याऽपि, प्रियासङ्गमलालसम् ।। सती सा जीविताऽवश्यं, भविष्यति कुतश्चन ॥८४॥ आशया धार्यते प्राण-श्चाशा हि दृढबन्धनम् । आशामयमिदं विश्वं, तया साजीविता भवेत् ॥ ८५॥ अतः सा मयका पूर्व-मन्वेष्टव्या प्रयत्नतः । गवेषणा कृतेऽवश्यं, मिलिष्यति प्रिया मम ॥ ८६ ॥ निर्धार्येति महाधीरो, विचचार बनान्तरे । गिरिषु गिरिकुलेषु, पर्यन्तेषु बनेषु च ॥८७॥ कूलेषु सरितामेवं, कन्दरासु दुमेषु च गुप्तस्थानसहस्रेषु, मार्गिताऽनेन सा भृशम् ॥ ८८ ॥न दृष्टानच वाऽश्रावि, तद्विशुद्धिः कुतोऽपि च। किं कर्तव्यतया मूढो, धीरोऽपि स तदाऽभवत् ॥८९ ॥खेदवान् तप्यमानाऽऽत्मा, शापभ्रष्ट इवाऽमरः । प्रहसितं निजं मित्रं, प्रोचिवानिति विहवलः ॥१०॥ मित्र ! गत्वा त्वया वाच्यौ, पितरौ मे सचिन्तितौ। धरणीमटता विश्वग्नाऽसना वीक्षिता मया ॥११॥ भूयोऽपि गहनारण्ये, पुरीषु नगरेषु च । शोधयिष्यामि तां कान्तां, भूरि प्रयत्नशतैरपि ॥१२॥ प्राप्ता चेत् सुन्दरं नोचेत्प्रवेक्ष्यामि हुताशने। उपायो नापरः कश्चि-त्तां विना मम जीवने ॥ १३॥ सखा सोऽपि ततः शीघ्र-मादित्यपुरमाश्रयत् । वाचिकं तस्य तत्पित्रोः, पुरस्तादखिलञ्जगौ॥ ९४ ॥ श्रुत्वेति जननी तस्य, बचः श्रुति विदारकम् । पपात मूर्छितावूभौ, हृदि ग्राणैव ताडिता ।। ९५ ॥ लब्धसज्ञा च निश्वस्य,
॥३९॥