________________
श्रीजैन कथासंग्रहः
॥श्रीअज्ञानासुन्दरीचरित्रम्।।
॥३८॥
त्कानिदेकां स्त्रियं स्थिताम् । पृष्टा सा मत्प्रिया काऽस्ति, दृगजरविभोपमा॥६९॥ दृष्टा चेद भद्रास्ये ! तां विना जीवितं क्षणम् । उत्थाय विनयेनाऽह, साऽपि तवृत्तमादितः ॥ ७॥ गते च रणयात्रायां, त्वयि सौम्य! यशस्विनि! कियत्काले गते साऽभूद्-गर्भलक्षणलक्षिता॥१॥पतिरस्यां विरक्तोऽस्ति, गतश्च रणमूर्धनि । सगर्भा दृश्यते चैषा, श्वश्रूरिति व्यतर्कयत् ॥ ७२ ॥ तर्जयन्ती च तां प्राह, श्वश्रूः केतुमती तदा। यान्वयकलकिन्या, कृतं किमु त्वया खले!॥७३॥ मुद्रिकादर्शनेनाऽपि, श्वश्वा नाऽभूच्च प्रत्ययः । कलादोषभीत्याऽत-स्तदैवैषा निराकृता ।। ७४ ॥ आज्ञया ते ततो मातु-निर्दया अपि सेवकाः । अञ्जनां मन्दभाग्यां तां, महेन्द्रनगराहिः ॥ ७५॥ समीपस्थे वने त्रस्तां, हरिणीमिव पामराः। नीत्वा च मुमुचुः पापाः, रुदन्ती ससी सतीम् ।। ७६॥ वज्रोपमगिरं श्रुत्वा, पवनः पवनोजवी । प्रययौ श्वशुरागारं, प्रियादर्शनमुत्कलः॥ ७७॥ तत्राऽपि दैवयोगेन, नैक्षिष्ट दयितां प्रियाम् । वजाहत इव श्वासान्, मुन्धन्यावच्च तस्थिवान् ॥ ७८॥ तावत्काञ्चित् स्त्रियं धीरः, पप्रच्छ विरसाननः । अञ्जना मत्प्रिया चात्र, त्वागता वा नवोच्यताम् ॥७९॥ साऽपि भाले करौ कृत्वा, सप्रश्रयमुवाच च । आगता चाऽत्र सामान्या, वसन्ततिलकान्विता ॥ ८॥ अन्तर्वत्नीञ्च तां दृष्ट्वा, व्यभिचारकशाया। बाला हा! जनकेनापि, सद्य एव निराकृता ॥ ८१॥ प्रलयकालदम्भोलि-सोदरं तद्वचःक्रमम् ॥ श्रुत्वा चं,
॥३८॥