SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीजैन जासंग्रहः । ॥ श्रीअञ्जना - Xx सुन्दरीचरित्रम् ॥ ॥३०॥ सरोमानसपवाली, राजहंसशिशुर्यथा॥५६॥ कलकेलिं शिशोर्दृष्ट्वा, चाऽऽपूर्वानन्ददायिनीम् । अञ्जना मुदिताऽप्यन्त-र्दुःखितेव निरन्तरम् ॥ ५७॥ श्वश्रूदत्तकलको हि, शल्य इव पदे पदे । दुःखाकरोति तां बाला, यावनिर्णयमन्तरा॥५८॥ .. इतो लडेशसाहाय्ये, प्रस्थितः पवनो बली। जलेशपार्श्वत: साम्नाऽमोचयत्खरदूषणौ ॥५९॥ अपूर्वविक्रमं दृष्ट्वा, लकेशोऽपि नभस्वतः । अत्यन्ततोषमापान्त-विष्णोरिव सुराधिपः ॥६०॥ ततो लाधिपः सत्रा, परिवारेण हर्षितः । लङ्कामाप विशाला स्वां, पुण्यात्मेव सुरालयम् ॥६१॥ रावणाज्ञां शिरः कृत्वा, पवनः पवनोपमः । हारस्फारयशा दीप्तः, स्वपुरीं समवासरत् ॥१२॥प्रणिपत्य पितुर्मातुचरणावतिभक्तितः । लब्धाशीराययौ मक्षु, स्वप्रियावासमुत्तमम् ॥ ६३ ॥ चन्द्रमिव कलाहीनं, निर्दुममिव काननम्; निकुञ्जमिव निर्वल्लिं, निष्पर्णमिव पादपम् ॥ ६४ ॥ यतिमिव क्रियाशून्यं, रमाहीनमिवाङ्गिनम् । पुत्रहीनमिवागारं, निस्तोयामिव कूलिनीम् ॥ ६५ ॥ पुष्पमिव विनिर्गन्धं, निष्पद्यामिव वापिकाम् । अञ्जनारिक्तमावासं, दृष्ट्वाऽसौ विगतप्रभम् ॥६६॥ आप मूच्छा पपातोव्या, लब्धसज्ञश्चिचिन्त च । मद्वियोगेन सा कान्ता, मृता वाऽन्यत्र हा गता ? ॥ ६७ ॥ प्रविष्टा वा धरारन्ध्र, वा मां दृष्ट्वा तिरोहिता। कान्ते ! भो! दर्शनं देहि, नेयञ्च नर्मवेलिका॥ ६८ ॥ वदनिति सकोऽपश्य ॥३७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy