SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 11011 जग्मतु - रुद्यानं दध्यतुश्चैवम् ।। ६१ ।। आहारार्थं प्रतिगृह-मटद्भिरासाद्यते व्यसनमुच्चैः ॥ गात्रं चैतद्गत्वर· माहारेणापि कृतपोषम् ॥ ६२ ॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ।। इति तौ चतुर्विधाहारमनशनं चक्रतुः कृतिनौ ॥ ६३ ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः । केनाप्यूचे मुस्तिमथ नृपोऽबन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, 'मान्यानपमानयत्विति महीमान् ।। पुरमध्येनानैषी-दुपमुनि तं 'दस्युमिव बद्धम् ॥ ६५ ॥ तौ चावन्दत भूपो ऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारुधर्मलाभाशिषा श्रमणी ।। ६६ ।। लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः ।। 'शमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् ।। ६७ ।। मोक्तव्य एव राजन्नयमित्युदितस्ततो नृपस्ताभ्याम् । निर्वास्य पुरादमुचद्गुरुवचनाद्वध्यमपि तं द्राक् ॥ ६८ ॥ तौ तुमथायासी स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ।। ६९ । तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोऽभूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ।। ७० ।। दध्यौ चैवं यस्या, वेणिस्पर्शोऽपि सृजति सुखमतुलम् । तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ॥ ७१ ॥ अन्तःपुरमन्तः पुरयुक्ते, राजनि गतेऽथ तौ नत्वा ॥ सम्भूतमुनिर्विदधे, निदानमिति १ पूज्यान् । २ चौरम् । ३ मुन्योः । ४ कमलमुख्याः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 11011
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy