SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३५॥ न संशयः ॥ २९ ॥ भवेऽस्मिन्क्षीणकर्माऽयं, निर्वाणपदमेष्यति । दिगन्तख्यातसत्तेजा, दिवानाथ इवाऽजनि ॥ ३० ॥ सूचयन्ति ग्रहा एव, भाग्यमस्य शिशोर्महत् । गदतो मे च भो राजन्, शृणु खेटफलश्रुतिम् ॥ ३१ ॥ विद्यते मधुमासस्य त्वद्य कृष्णाष्टमी वरा । नक्षत्रं श्रवणं दिव्यं, वारेषु रविवासरः ।। ३२ ।। उच्चः सन् मेषराशिस्थो वर्तते च दिवाकरः । रजनीशोऽपि नक्रस्थो, मध्यभावे च संस्थितः ।। ३३ ।। भूमिपुत्रोऽपि मध्ये सन्, वृषराशिसमाश्रितः । बुधोऽपि मध्यभावस्थः, पाठीनराशिमाश्रितः ॥ ३४ ॥ अत्युच्चः संश्च जीवोऽपि, कर्कराशिविराजितः । निजोच्च मीनराशिस्थो, भार्गवोऽपि प्रभासते ॥ ३५ ॥ मन्दोऽपि मीनराशिस्थो, मीन लग्नोदयी तथा । विद्यते ब्रह्मयोगोऽपि, ततोऽयं शिशुरुत्तमः ॥ ३६ ॥ निमित्तज्ञोदितां वाचं, सद्ग्रहोदयसूचितां निशम्य खेचरेन्द्रोऽपि मोदमापाति हृत्कजे ॥ ३७ ॥ सपुत्रसखिकोपेतां, भाग्नेयीमञ्जनां ततः । विमानीकृत्य प्रतस्थे, प्रतिसूर्यपुरं प्रति ॥ ३८ ॥ मार्गे यानञ्जनीपुत्र-श्चपलो निर्भयः सकः । पश्यन् कौतुकजालानि, क्रीडन् रिङ्खन् रुदन् हसन् ।। ३९ ।। विमानाकाशसंदृब्धान्, लम्बमानान् मनोहरान् । नानारत्नमयान् गुच्छान- द्राक्षीद्विस्फुरत्त्विषः ॥ ४० ॥ रत्नस्तबकजिज्ञासो, जनन्युत्सङ्गतस्त्वरा । उत्प्लुत्य वज्रवत्तस्मात्पपात गिरिसानुनि ॥ ४१ ॥ तदाऽऽघातेन शैलोऽपि, काचवच्चूर्णितोऽभवत् । स्वयम्भीत्या च भग्नो वा, यतोऽयञ्जड उच्यते ॥ ४२ ॥ ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥३५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy