________________
कथासंग्रहः
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥३४॥
दुःखस्य कारणं किन्ते? ब्रूहि बाले! यथातथम् ॥१७॥ साश्रुनेत्री तदा प्राह, बसन्ततिलका सखी। आविवाहसुतोत्पत्ति-पर्यन्तोदन्तजातकम् ॥ १८॥ श्रुत्वा तद्विषमं वृत्तं, मुमोचाणि सोऽपि च । तदुःखपतां मन्ये, क्षालयन्निव सन्मनाः॥१९॥ तदेव हृदयं हृद्यं, परदुःखैश यन्मुहुः । द्रवति चान्यथा हन्त ! पाषाणकल्पमेव च ॥२०॥ चित्रभानुः पिता माता, सुन्दरीमालिका मम । तत्कुक्षिसम्भवश्वैष, ज्ञायतां शुभलक्षणे! ॥ २१ ॥ मानसवेगानाम्नी या, तव माता च सुन्दरि ! । तन्द्राता बुध्यतामेष, मातुलोऽस्मि तवानये ॥ २२ ॥ महता भाग्ययोगेन, जीविता त्वं निरीक्षिता। दिवसोऽयं महाऽऽनन्दी, भव स्वस्था च साम्प्रतम् ॥ २३ ॥ एष मे मातुलः साक्षाद्-दुःखहर्ता विशेषतः । ज्ञात्वेति रोदनचक्रे, भृशमेवाऽतिपीडिता ॥ २४ ॥ चिरं स्वेष्टजने दृष्टे, दुःखोत्पत्तिर्विशेषतः । स्वनाशभयतो मन्ये, दुःखं रोदिति वै स्वयम् ॥ २५॥ रोदनात् तां विनिर्वार्य, चावास्यामृतवाचया। सहस्वेनाऽऽगतं कञ्चित्पप्रच्छ गणकोत्तमम् ॥ २६ ॥ दैवज्ञ ! वद पुत्रोऽयं, कीदृविधिर्भविष्यति । नैमित्तज्ञोऽपि तद्विद्यो, यथार्थफलमूचिवान् ॥ २७ ॥ खेचरेश ! महाराज ! कुमारोऽयं जगत्त्रये । जज्ञे चाद्भुत एवाहो, विचित्रगुणकर्मभिः ॥२८॥शुभसंदृष्टसल्लग्ने, जनिरस्याऽभवच्छुभा, पुण्यात्माऽयं महाभूपो। भविष्यति
॥३४॥