________________
र
मीन
व्यासंग्रहः
॥श्रीअञ्जनाXX सुन्दरीचरित्रम् ॥
॥३३॥
क्रकचदशनबरो वह्निज्वालास्फुरत्कचः । लोहाशनखास्यास्त्रः, शिलावक्षाः सटाधरः ॥५॥ मदोन्मत्तकरीन्द्रासृक्-लिप्तदेहकरालकः । प्रज्वलद्दीपदृक्तेजा, वज्रदंष्ट इवाशरः ॥६॥ दृष्ट्वा तं महासिंह हरन्तमिव जीवितम् । ते उभे वेपमानाने, ततो मन्दं प्रचेलतुः॥७॥ प्रविशन्त्यो मृगीवैते, कातराक्ष्यो धरातलम् । किङ्कर्तव्यतया मूढे, यावद्धीत्या च तस्थतुः॥८॥ तावत्तत्कन्दराधीशो, गन्धर्वमणिचूलकः । शीघ्रमष्टापदीभूय, प्राणांस्तस्य त्वपाहरत् ॥९॥पुनरष्टापदं रूपं, संहृत्य सप्रियः सकः। तद्धर्षाय स्तुतिञ्चक्रे, गुणानामर्हतः प्रभोः॥१०॥ अमुक्त्वा तस्य सामिप्य-मुषतुस्तत्र ते सुखम् । मुनिसुव्रतनाथस्य, बिम्बं संस्थाप्य पूज्यते ॥११॥ वज्रचक्राशाकाप्रिं, भूरिविक्रमशालिनम् । सिंहीव चैकदा सिंह-मजनाऽसोष्ट सत्सुतम् ॥ १२॥ तत्सखी मुदितास्याब्जा, वसन्ततिलका ततः। अन्नपानादिभिस्तस्याः, प्रसूतिकर्म चाउचरत् ॥१३॥ अञ्जना च तदा पुत्रं, कृत्वा चोत्सङ्गवर्तिनम् । विललापाश्रुधाराभी, रोदयन्तीव तद्गुहाम् ॥१४॥ महात्मन् ! पुत्र! घोरेऽस्मिन्-कान्तारे तव जन्मच । अपुण्या च कथं कुर्वे, त्वदुत्पत्तिमहोत्सवम् ? ॥ १५॥ रुदन्ती तां तथा वीक्ष्य, सदयो गगनेचरः। प्रतिसूर्याभिधम्चत्य, प्रोवाच मधुरोक्तिभिः ॥ १६॥ क्रोडीकृत्य सुतं दिव्यं, रोरुदीति कथं बहु ?। १ राक्षस - इति। -
ዘንህ